376

अत्र प्रत्यक्षेष्वपि स्रोतस्तरुविपिनादिषु स्मरणस्य चिन्ताजन्यत्वादिदं चिन्तोद्भूतं स्मरणम् ॥

आदिग्रहणात्परप्रयत्नाद्यथा—

‘दर्शनपथमायाता साक्षादिव तन्मयेन हृदयेन ।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥ १३५ ॥’

अत्र परकृतात्प्रयत्नविशेषाच्चिन्तायाः प्रवृत्तत्वादिदमपि स्मरणमेव ॥

स्वप्नाद्यथा—

‘जाने स्वप्नविधौ ममाद्य चुलुकोत्सेक्यं पुरस्तादभू- त्प्रत्यूषे परिवेषमण्डलमिव ज्योत्स्नासपत्नं महः ।
तस्यान्तर्नखनिस्तुषीकृतशरच्चन्द्रप्रभैरङ्गकै- र्दृष्टा काप्यबला बलात्कृतवती सा मन्मथं मन्मथम् ॥ १३६ ॥’

अत्र स्वप्नस्य चिन्तादिजन्यत्वात्स्वप्नस्मृतिरपि स्मरणमेव ॥

यदि स्वप्नस्मृतिरपि स्मरणमेव तदा कतमदत्र सादृश्यादिषु कारणमत उक्तम्—चिन्तादीति ॥

प्रत्यभिज्ञानं यथा—

‘गृहीतो यः पूर्वं परिणयविधौ कंकणधरः सुधामूर्तेः पादैरमृतशिशिरैर्यः परिचितः ।
स एवायं तस्यास्तदितरकरौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीकन्दलनिभः ॥ १३७ ॥’

अत्र गृहीतो यः पूर्वं स एवायं तस्याः पाणिरिति प्रत्यभिज्ञानमपि स्मरणमेव ॥

प्रत्यभिज्ञानस्वरूपं दर्शयति—यः पूर्वं स एवायमिति । ननु सूत्रे स्वप्नात्पूर्वं प्रत्यभिज्ञानमुद्दिष्टं पश्चादुदाह्रियत इति कथमेतत् । अत्रोदाहरणक्रमेऽपि लिपिप्रमादोऽयमित्याराध्यपादाः ॥