रोमाञ्चबन्धादिष्विति । बध्नन्नित्यादौ शतृप्रत्ययेन कर्ताभिधीयते । स च सामानाधिकरण्यात्स्पर्श एव । स्पर्शत्वाविशेषे तु शक्तिरेव प्रयोजिका वाच्येत्यर्थः ॥