कथमन्यथेति । नेयमर्थापत्तिः; किंतु तथाभूता नायकस्य ललाटेऽलक्तकबिन्दुविशेषपङ्क्तिः प्रमदापदावपातप्रतिबद्धेति । न चालक्तकबिन्दुपङ्क्तिज्ञानं तथा स्वदते यथा विपक्षचरणावनमनानुमेयस्य ज्ञानं फलभूतम्, तत्किल विपक्षगोचरामीर्ष्यां व्यञ्जयद्विप्रलम्भप्रकर्षं पुष्णाति ॥