392 यम् । यदा तु चित्रादिष्वनुभूतस्वमुखदर्शनायाः प्रतिबिम्बदर्शनादनेन सदृशं मे मुखमिति प्रतिपत्तिर्दृष्टप्रियतमाकारायाश्च प्रतिबिम्बाकारदर्शनादेतदाकारो मम प्रेयानिति प्रतिपत्तिः प्रतिबिम्बसंनिधौ प्रतिबिम्बोदयो दृष्टस्तदिह संनिहितेन तेन भवितव्यमिति यो व्रीडाविकारभूतस्तदानुभूतविषयमेतदुपमानं प्रतिबिम्बमित्याचक्षते ॥

प्रतिबिम्बसंनिधाविति । प्रसङ्गाद्यदर्थमनुमानं व्याख्यातं तद्दर्शयति—व्रीडाविकार इति । अतएव प्रधानमात्रस्योपसंहारः ॥

‘प्रत्यक्षादिप्रतीतोऽर्थो यस्तथा नोपपद्यते ।
अर्थान्तरं च गमयत्यर्थापत्तिं वदन्ति ताम् ॥ ५२ ॥’

अर्थापत्तिं लक्षयति—प्रत्यक्षादीति । प्रमाणप्रतीतस्यार्थस्यान्यथाकरणानुपपत्तिज्ञानेन प्रसूतं ज्ञानमर्थापत्तिः । अनुपपद्यमानार्थप्रत्यायकं च प्रमाणं प्रत्यक्षादिभेदात् षट्प्रकारम् । ततस्तत्पूर्वार्थापत्तिरपि षोढा संपद्यते, यदर्थान्तरं गमयति तामर्थापत्तिं वदन्तीति । अर्थान्तरगतिरेवार्थापत्तिरिति व्यक्तम् ॥

सर्वप्रमाणपूर्वत्वादेकशोऽनेकशश्च सा ।
प्रत्यक्षपूर्विकेत्यादिभेदैः षोढा निगद्यते ॥ ५३ ॥

एकश इति । एकश एकप्रमाणपूर्वा । अनेकशोऽनेकप्रमाणपूर्वा । कथं तर्हि षोढा । अत उक्तम्—प्रत्यक्षपूर्विकेत्यादिभेदैरिति । व्याख्यातमेतत् ॥

तास्वेकशः प्रत्यक्षपूर्विका यथा—

‘निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि ।
अन्यथानुपपत्त्यैव पयोधरभरस्थितेः ॥ १७१ ॥’

अत्र स्तनभरनितम्बयोर्मध्यं नोपलभ्यते, स्तनभरावस्थानं च दृश्यते, तत्र येयं पयोधरभरस्थितिः सान्यथानुपपद्यमाना धारकं मध्यमनुपलभ्यमानं बोधयति । सेयं प्रत्यक्षपूर्विकार्थापत्तिरेकश एवेह विवक्षिता । इयमपि ह्येवं बहुशो भवति यत्तदर्थापत्तिलब्धं मध्यं तदपि