इतरेतराभावो यथा—
अत्यन्ताभावो यथा—
अन्ये पुनरन्यथा अत्यन्ताभावमाचक्षते । यता—
स्थानान्तरप्रमितस्य स्थानान्तरे त्रैकालिकोऽभावविशेषोऽत्यन्ताभाव इति दर्शनमाश्रित्य चतुष्टयमध्यपाती तावदत्यन्ताभाव उदाहृतः । इदानीं पञ्चमाभावोचितविशेषमत्यन्ताभावं दर्शयति—अन्ये पुनरिति । अन्ये सौगतादयः । अत्यन्तासत्प्रतियोगिकोऽभावोऽत्यन्ताभावः । यथा खपुष्पस्याभाव इत्युदाहरणं स्फुटम् ॥
सामर्थ्याभावो यथा—
त एते षडपि निगदैरेव व्याख्याताः ॥
सामर्थ्याभावो योग्यताभावः । अनेनैव रूपेण स रसतामासादयन्नुपात्तः ॥
अभावाभावोऽप्यभाव एव । तत्र प्रागभावप्रध्वंसो यथा—
अभाव एवेति । अभावव्यवहारपात्रमेव तथाभूतस्यैव लक्षणमित्युक्तं पुरस्तात् ॥