320

अत्रैकमेव मधुमथनमुद्दिश्यानेकस्तुङ्गत्वादेः प्रवृद्धत्वादिः प्रसिद्धो हेतुर्व्यावर्त्यते । स्वाभाविकत्वं च तं प्रत्येषां विभाव्यते । सेयं चित्रा नाम स्वाभाविकत्वविभावनायां विभावना ॥

तथैव गीर्भङ्ग्या विचित्रा यथा—

‘वक्रं निसर्गसुरभि वपुरव्याजसुन्दरम् ।
अकारणरिपुस्तस्या निर्निमित्तं सुहृच्च मे ॥ १७ ॥’

अत्रोत्तरयोर्विरहसमागमादिकारणान्तरविभावनयोः स्वाभाविकीभ्यां प्राग्विभावनाभ्यां यथासंख्यं विशेष उक्तं । सेयं विभावनयैव विभावनायां विशेषोक्तेस्तयैव गीर्भङ्ग्या विचित्रा नाम विभावना भवति ॥

वक्रं निसर्गसुरभीति । तस्या यथोक्ते वक्रवपुषी ममाकारणरिपुर्निर्निमित्तं सुहृच्चेत्यन्वयो विवक्षितप्रतीतिलाभाच्च नार्थान्तरैकवाचकत्वलक्षणो दोषः । यथासंख्यमिति । तयोरप्येकैकं प्रति संपादनलक्षणविशेषार्पणक्षमत्वात् ॥

सैवान्यया गीर्भङ्ग्या यथा—

‘वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥ १८ ॥’

अत्रातैलपूराः सुरतप्रदीपा इति स्वाभाविकत्वविभावनायां शेषपदार्थैरविभावनारूपैर्विशेष उक्तः । सेयमन्यया गीर्भङ्ग्या विचित्रा नाम विभावना भवति ॥

शेषपदार्थैरिति । वनितासखत्वादिभिः सुरताद्युपपादकैः ॥

क्रियायाः कारणं हेतुः कारतो ज्ञापकश्च सः ।
अभावश्चित्रहेतुश्च चतुर्विध इहेष्यते ॥ १२ ॥

हेतुप्रतिषेधो विभावनायामुक्तः, अथ हेतुरेव क इत्यपेक्षायां हेतुलक्षणमाह—क्रियायाः कारणं हेतुरिति । उपपत्तौ क्रियायामेव सर्वस्य निमित्तभावो निरूप्यत इत्यभिसंधाय क्रियाया इत्युक्तमिति कश्चित् । तदसत् । द्रव्यगुणक्रिया-