322

अत्र प्रभावः क्रियायामनिविशमान एव हेतौ तृतीयां प्रवर्तयति न कर्तरीति क्रियायामनाविष्टकारकहेतुभेदः ॥

तस्य राज्ञः प्रभावेनेत्यत्र सदपि कर्तृत्वमविवक्षितं, अतो हेतुमात्रविवक्षायां पाक्षिकी तृतीया भवतीत्याह—हेतौ तृतीयायामिति । करणभावस्त्वसंभावित एव प्रभावमात्रस्य व्यभिचारात् ॥

निवर्तकः क्रियाविष्टो यथा—

‘चन्दनारण्यमाधूय स्पृष्ट्वा मलयनिर्झरान् ।
पथिकानां प्रमाथाय पवनोऽयमुपस्थितः ॥ २१ ॥’

अत्रैवंविधस्य पवनस्य पथिकप्रमाथसाधनक्रियायां कर्तृत्वेनावेशान्निवर्तको नामायमाविष्टक्रियः कारकहेतुभेदः ॥

प्रमाथसाधनक्रियायां कर्तृत्वेनेति निष्ठाप्रत्ययेनोपात्तेनेति भावः ॥

स एव क्रियानाविष्टो यथा—

‘प्रजागरात्खिलीभूतस्तस्याः स्वप्नसमागमः ।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥ २२ ॥’

अत्र समागमनिवृत्तावनिविशमानः प्रजागरस्तृतीयार्थे पञ्चमीं प्रयोजयति । बाष्पः पुनर्दानक्रियावेशाद्दर्शनक्रियायामनाविशन्कर्मसंबन्धात्तामप्रधानभावेन चोपगृह्णातीत्यनाविष्टक्रियो नाम निवर्तकोऽयं कारकहेतुभेदः ॥

खिलीभावो निवृत्तिः । तृतीयार्थ इति । हेताववधित्वाप्रतीतेरपादानभावेन संभावितः । दानक्रियेति । स्यादत्र दर्शनक्रियासमावेशो यदि दानक्रियावेशः स्यात् । स एव तु नास्ति नञा निषेधादित्यर्थः ॥

प्रयोजकः क्रियाविष्टो यथा—

‘तस्मिञ्जीवति दुर्धर्षे हतमप्यहतं बलम् ।
हनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयम् ॥ २३ ॥’