332
न तव निशुम्भसंभ्रमवशादपि दारुणया भगवति चेष्टया कलुषितं वदनाम्बुरुहम् ॥ ४३ ॥’

अत्र निशुम्भसंभ्रमस्य हेतोरनुत्पादितभ्रुकुट्यादिदारुणचेष्टाद्वारेण भगवतीमुखाम्बुकालुष्यस्य करणे यदसामर्थ्यं तत्र तन्मुखाख्यस्य वस्तुनः स्वभावो निमित्तमिति स्वभावादनुत्पादितकार्योऽयमहेतुः ॥

अत्र निशुम्भेति ॥ भ्रूकुट्यादिदारुणचेष्टाद्वारेणेति । अन्यथा निशुम्भसंभ्रमवशादिति पञ्चमी असंगता स्यादिति भावः ॥

स एव शक्तेर्हानिहेतुवा यथा—

‘अनुरागवती संध्या दिवसस्तत्पुरः सरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ४४ ॥’

अत्रानुरागवत्त्वतत्पुरः सरत्वयोः समागमहेत्वोः सामर्थ्यविघाते दैवगतिः कारणमिति शक्तेर्हानिहेतुनायमकृतस्वकार्यो नामाऽहेतुः ॥

अनुरागो लौहित्यं प्रीतिश्च । पुरःसरोऽग्रे गमनशीलः संनिधौ स्थितश्च ॥

वस्तुनः स्वभावेन व्याहतो यथा—

‘नीवीबन्धोच्छ्वसनशिथिलं यत्र यक्षाङ्गनानां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
अर्चिस्तुङ्गानभिमुखगतान्प्राप्य रत्नप्रदीपा- न्ह्रीमूढानां भवति विफलः प्रेरणाचूर्णमुष्टिः ॥ ४५ ॥’

अत्र रत्नप्रदीपनिर्वापणे चूर्णमुष्टेरपत्यक्तस्वरूपस्यापि विघाते रत्नप्रदीपाख्यवस्तुस्वभावः कारणमित्ययं वस्तुस्वभावेन व्याहतो नामाऽहेतुभूतः ॥

अमृतसेकजीवितकङ्कालक्तिप्रतिबन्धे को हेतुरत आह—

स एव शक्तेर्हानिहेतुना यथा—

‘शंभोरुद्धतनृत्यकर्मणि करे कङ्कालमाद्यं हरेः संघट्टस्फुटितेन्दुमण्डलगलत्पीयूषसंजीवितम् ।