339

अत्र वसुधादय इति । निर्धारिताद्वसुधामात्रात्पत्तनवती वसुधा व्यतिरिच्यते । वसुधावत्पत्तनात्सौधवत्पत्तनम् । सौधात्तल्पवत्सौधात्तल्पाद्वराङ्गनावदिति तदिदमुक्तं उत्तरोत्तरक्रमेणेति ॥

एतेन धर्मधर्मिस्वरूपोऽपि व्याख्यातः । स द्विधा । सामान्यतो विशेषतश्च ॥

तत्र सामान्यतो यथा—

‘गीतशीतांशुताम्बूलकर्पूरवनितादिभिः ।
असारोऽप्येष संसारः सारवानिव लक्ष्यते ॥ ५८ ॥’

अत्र गीतादीनां जगतः सारभूतानामविशेषेणैव सर्वेषामुपादानाद्धेतुतृतीयान्ततया च संसारसारवत्त्वेऽङ्गभावादयं सामान्यतो धर्मधर्मिरूपः सारः ॥

अत्र गीतादीनामिति । नहि गीतादौ कश्चिद्विशेष उक्तः । अत एवादिशब्दोऽपि सजीवस्तथापि दध्यादीनामङ्गभावः प्रतीयत इत्यत आह—तृतीयान्ततया चेति । तृतीयया हिं कारकत्वमुक्तम्, कारकत्वं च क्रियोपसर्जनरूपमित्यर्थः ॥

विशेषतो यथा—

‘अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः ।
मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥ ५९ ॥’

अत्र गङ्गाप्रपातसप्तर्षिपादोदकयोर्विशेषेण सारभूतयोरुपादानाद्धिमवतः पूतत्वे चाङ्गभूतत्वादयं विशेषतो धर्मधर्मिरूपः सारः ॥

अत्र गङ्गाप्रपातेति । प्रपातपादोदकयोर्गङ्गायाः सप्तर्षिभिश्च विशेषितत्वादङ्गतामुपपादयति—हिमवतः पूतत्वे चेति ॥

व्यतिरेकोत्तरे विरुद्धधर्माक्रान्तिरस्तीति सङ्गत्या विरोधलक्षणमाह—

विरोधस्तु पदार्थानां परस्परमसङ्गतिः ।
असङ्गतिः प्रत्यनीकमधिकं विषमश्च सः ॥ २४ ॥