447 उल्लसितं स्खलितं नितम्बोपरि निवसनं यस्याः सा । उपरीति योग्यतया वक्तव्यम् । नि द्रया भेम्भली विह्वला ग्रहणं चन्द्रोपरागं श्रुत्वा विनिष्क्रान्ता । अर्थात् गृहात् । रहुरपि तस्या मुखं विलोकते पुनर्विलोकते । गगने भ्रान्तः संशयानः सन् नैव जानाति कान्तामुखचन्द्रयोर्द्वयोर्मध्ये कश्चन्द्र इति । खलु एवार्थे । अत्र संशयशुद्धतान्यामिश्रणेन ॥

अभिधीयमानसादृश्यो मिश्रो यथा—

‘द्वावप्येतावभिनवजपापुष्पभासां निवासौ तिष्ठत्यन्ते द्वयमपि वियन्मण्डलस्योपसंध्यम् ।
अस्तं को यात्युदयति च कः को रविः कः शशाङ्कः का च प्राची तदिह न वयं का प्रतीचीति विद्मः ॥ ७६ ॥’

अत्र द्वयोरभिधीयमानसादृश्ययोः सूर्याचन्द्रमसोः प्राचीप्रतीच्योर्वा तदन्यतममेकमेव वस्तु पर्यायतो विशङ्क्यत इत्यनेकविषयोऽयं मिश्रः संशयः । उपलक्षणं चैतत् । तेन वितर्कोक्त्यादयोऽपि संशयोक्तावेव द्रष्टव्याः ॥

द्वावित्यादि । द्वावप्येतौ रविशशङ्कौ नवीनजपाकुसुमदीप्तीनामाश्रयौ स्तः । उपसंध्यं संध्यासमीपे द्वयमपि रविचन्द्ररूपं वियन्मण्डलस्याकाशमण्डलस्यान्तेऽवसाने तिष्ठति । तदिह कोऽस्तं याति, को वोदयति । कः सूर्यः, कश्चन्द्रः, का प्राची पूर्वा दिक्, का प्रतीची पश्चिमा दिगिति न वयं विद्मः । अत्र रक्तरूपतया गगनान्तगमनेन चाभिधीयमानं सादृश्यम् । अनेकविषयतयैव मिश्रता । तर्हि वितर्कोक्तिः पृथक् कथं नोक्तेत्यत आह—उपलक्षणमिति । संशयोक्तावेवान्तर्भावान्न पृथगुक्ता सेत्यर्थः ॥

तद् यथा—

‘सरोजपत्रे 153परिलीनषट्पदे विशालदृष्टेः154 स्विदमू विलोचने ।
शिरोरुहाः स्विन्नतपक्ष्मसंततेर्द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥ ७७ ॥’
‘अगूढहासस्फुटन्तकेशरं मुखं स्विदेतद्विकचं155 नु पङ्कजम् ।
इति प्रलीनां नलिनीवने सखी विदाम्बभूवुः सुचिरेण योषितः ॥’

(युग्मम्)

  1. ‘नु विलीन’
  2. ‘विलोलदृष्टेः’
  3. ‘विकसन्नु’ इति च पाठान्तराणि