452

उर इत्यादि । ‘उरःप्रेरितवृतिकारवेल्लीफलान्युच्चिनोषि दयितवत्सले । कण्टकविलिखितपीनोन्नतस्तनि ताम्य इदानीम् ॥’ इह हे दयितवत्सले प्रियप्रेमवति कण्टकलिखितपीनोन्नतस्तनि, इदानीं ताम्योद्विग्ना भव । किं कृत्वा । उरसा वक्षसा प्रेरिता या वृतिर्वेष्टनं तत्र कारवेल्लीफलानि उच्चिनोषि त्रोटयसि । कारवेल्ली करवेल्ली । अत्र पूर्वार्धे कारणकथनात्पूर्वता । उक्तयोरनौपम्यं व्यक्तमेव । ननु नात्र साहजिकोऽपह्नवस्तत्कथमपह्नुतिरत आह—अपह्नुत्येति । आरोपेणापह्नवलक्षणयोगादपह्नुतिरित्यर्थः ॥

सैवापूर्वा यथा—

‘कस्स व ण होइ रोसो दट्ठूण पिआइ सव्वणं अहरम् ।
सभमरपउमग्धाइणि 156वारिअवामे सहसु एण्हिम् ॥ ८५ ॥’
[कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् ।
सभ्रमरपद्माघ्रायिणि वारितवाम्ये सहस्वेदानीम् ॥]

अत्रापि नास्या उपपतिनाधरो व्रणितः किं तर्हि भ्रमरेणेति प्रतीयमानापह्नोतव्यं वस्तु । पूर्वार्धे तु सव्रणमधरमिति कार्यमुपन्यस्य, पश्चिमार्धे सभ्रमरकमलाघ्रायिणीति कारणमुपन्यस्तम् । सेयमनौपम्या प्रतीयमानापह्नोतव्यवस्तुरपूर्वा च यथोक्तलक्षणयोगाज्जायते ।

कस्स व इत्यादि । ‘कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् । सभ्रमरपद्माघ्रायिणि वारितवाम्ये सहस्वेदानीम् ॥’ इह प्रेयाया अधरं सक्षतं दृष्ट्वा कस्य रोषो न भवति । ततो हेतोर्भ्रमरसहितपद्मस्याघ्राणकारिके, हे वारितवाम्ये दाक्षिण्यवति, संप्रति त्वं सहस्व सहिष्णुर्भव । अत्रोत्तरार्धे कारणोपन्यासादपूर्वता । पूर्ववदाशङ्कासमाधाने इत्याह—यथोक्तेति । इत्यपह्नुत्यलंकारनिरूपणम् ॥

समाध्युक्त्यलंकारनिरूपणम् ॥

समाधिलक्षणमाह—

समाधिमन्यधर्माणामन्यत्रारोपणं विदुः ।
निरुद्भेदोऽथ सोद्भेदः स द्विधा परिपठ्यते ॥ ४४ ॥
  1. ‘वारिता अधरदर्शनपर्यवसायिसभ्रमर पद्माघ्राणं निधुवनं च मा कृथा इति निवारितापि वामा निवारिताचरणा प्रतिकूला’ इत्युदाहरणचन्द्रिका