460

अनुभयवती यथा—

‘इतः स्वपिति केशवः 160कुलमितस्तदीयद्विषामितश्च शरणार्थिनः शिखरिपक्षिणः शेरते ।
इतोऽपि वडवानलः सह समस्तसंवर्तकैरहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ९५ ॥’

अत्र गर्हा श्लाघा वा विस्मयोक्तावेवास्तमयते । सेयं प्रतीयमानसादृश्यानुभयवती नाम समासोक्तिः ।

इत इत्यादि । सिन्धोः समुद्रस्य वपुराशयो विततं विस्तीर्णमूर्जितं बलवत् भारवहनक्षमं च । अत्रैवाश्चर्यम् । इतोऽत्रैव हरिर्वसति, अत्रैव केशवरिपूणामसुराणां पुरं नगरमस्ति । अत्रैव शरणं प्राप्तः शिखरिणां पर्वतेषु मध्ये पक्षिणः सपक्षा मैनाकादयः शेरते स्वपन्ति । नच शिखरिपक्षिण इत्यत्र ‘न निर्धारणे २।२।१०’ इति षष्ठीसमासनिषेध इति वाच्यम् । तन्निषेधस्यानित्यत्वान्निर्धारणस्याविवक्षणाद्वा निर्धारणद्योतकजात्यादेरभावेन तदुन्नयनात्, यद्वा शिखरिणश्च ते पक्षिणश्चेति विशेषणसमासः । पूर्वनिपाते तु बहुष्वेकत्र नियम इति व्यवस्थितिः । अत्रैव वडवानलोऽस्ति सकलमेघैः सह । ‘पुष्करावर्तसंवर्तकालकान्तिजलप्लवाः । इति वारिमुचां वंश श्चतुर्धा परिकीर्तितः ॥’ इति पुराणम् । अत्र श्लाघागर्हयोरस्तमनादनुभयवतीयम् ॥

अभिधीयमानसादृश्या श्लाघावती तुल्याकारविशेषणा यथा—

‘नालस्य प्रसरो जलेष्वपि कृतावासस्य कोषे रुचिर्दण्डे कर्कशता मुखेतिमृदुता मित्रे महान्प्रश्रयः ।
आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ ९६ ॥’

अत्राम्बुरुहसत्पुरुषयोः परस्परमुपमानोपमेयभावस्यातिशयप्रसिद्धेरुपमानेनैव श्लेषवत्तुल्यविशेषणपदाभिधीयमानसादृश्यमुपमानमुपमेयमेवाव-

  1. टीकाकृता तु ‘पुरमितस्तदीयद्विषा—’ इति पाठो धृतः