463 ङ्गना, कुङ्मलशब्देन कापि मुग्धाङ्गनाभिधीयते; सेयमन्यजातिविषयान्योक्तिः समासोक्तिरेव भवति ॥

पिबन्नित्यादि । भ्रमरो यथाकामं यथेच्छं प्रफुल्लपङ्कजे मधु पिबन् सन् असंनद्धसौरभ्यमप्राप्तसौगन्ध्यमपि कुङ्मलं चुम्बति । तत्पश्य । अत्र वाक्यार्थस्यैव कर्मता । अत्र भिन्नभिन्नजातितयान्यजातिता ॥

अनन्योक्तिशब्देनेहाध्यासविषया तद्भावापत्तिरुच्यते । यथैष ब्रह्मदत्त इति । सा द्विधा शुद्धा चित्रा च ।

तयोः शुद्धा यथा—

161सुधाबद्धग्रासैरुपवनचकोररैनुसृतां किरञ्ज्योत्स्नामच्छां नवलवलिपाकप्रणयिनीम् ।
उपप्राकाराग्रं प्रहिणु नयने तर्कय मनागनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥ १०० ॥’

अत्र कस्याश्चिन्मुखे चन्द्रमसमध्यास्य कश्चिदेवं ब्रूते । सा चेयं पूर्वार्धेऽभिधीयमानतुल्यविशेषणा, पश्चिमार्धे पुनरनाकाशे कोऽयं गलितहरिण इत्यत्र तुल्यविशेषणा समासोक्तिरेवानन्योक्तिः । एकस्यैव चाध्यासादियं शुद्धेत्युच्यते ॥

नान्यस्योक्तिरनन्योक्तिः । तथाचानन्योक्तिपदेन तद्भावापत्तिस्तत्ता विषयतैवोच्यते । एषोऽयमित्याकारस्तस्याः । मुधेत्यादि । हे सखे, उपप्राकाराग्रं प्राकाराग्रसमीपे नयने नेत्रद्वयं प्रहिणु देहि । मनाक् त्वं तर्कय । अनाकाशे आकाशातिरिक्तदेशे गलितहरिणस्त्यक्तलाञ्छनः कोऽयं शीतकिरणश्चन्द्र इति । कीदृशः । ज्योत्स्नां किरन् विक्षिपन् । कीदृशीम् । मुधा मिथ्या बद्धोऽनुबद्धो ग्रासः कवलो यैरेवंभूतैरुपवनस्थितचकोरैरनुसृतामनुगताम् । स्वच्छाम् । नवा नूतना या लवली लताभेदस्तस्याः पाकस्य प्रणयिनीं प्रश्रयवतीं च । ‘लवली च लताभिदा’ इति विश्वः । लवलीवाचको लवलिशब्दोऽपि । ‘लवलिः श्वेतपार्थपी162 (?) इति शब्दभेदः । उपप्राकाराग्रमित्यत्र सामीप्येऽव्ययीभावः । अत्र अध्यास्य आरोप्य । पूर्वार्धे तुल्यविशेषणत्वमुक्तम्, उत्तरार्धेऽतुल्यविशेषणत्वम् । तस्यैवाभिधानादनन्योक्तिरेकस्यैवाभिधानाच्छुद्धता च ॥

  1. टीकाकृतातु ‘मुधा बद्धग्रासैः’ इति पाठो धृतः
  2. ‘पादपी’ इति स्यात्