405

वाक्योपमाया अष्टविधत्वमाह—

वाक्योपमा तु या तत्र द्वैविध्यं सापि गच्छति ।
एका पदार्थयोः साम्ये परा वाक्यार्थयोर्मिथः ॥ १३ ॥
आद्या पूर्णा च लुप्ता च लुप्तवर्णा तथैव च ।
पूर्णलुप्तेति चाख्याता कविमुख्यैश्चतुर्विधा ॥ १४ ॥
पूर्णा सामान्यधर्मस्य प्रयोगे द्योतकस्य च ।
उपमानस्य च भवेदुपमेयस्य चैव हि ॥ १५ ॥

वाक्येति। । तत्रोपमायां मिथोऽन्योन्ये साम्य इति यावत् । ‘मिथोऽन्योन्ये रहोर्थे च मिथोऽन्योन्यसमुच्चये ।’ इति मेदिनीकारः । आद्या पदार्थोपमा पूर्णा सामान्यधर्मादिसाकल्यवती । प्रयोग इति सर्वत्रान्वीयते ॥

यथा—

‘कमलमिव चारु वदनं मृणालमिव कोमलं भुजायुगलम् ।
अलिमालेव सुनीला तथैव मदिरेक्षणे कबरी ॥ ९ ॥’

अत्र कमलमृणालालिमालादीनामुपमानद्योतकतुल्यधर्मोपमेयवाचकानां चतुर्णामपि पदानां पृथक् पृथक् प्रयोगे पदार्थयोः सादृश्यस्याभिधीयमानत्वादियं पूर्णानाम पदार्थोपमासु वाक्योपमाभाक्तिः ॥

लोपे सामान्यधर्मस्य द्योतकस्य च योपमा ।
प्रतीयमानसादृश्ये द्वयोर्लुप्तेति तां विदुः ॥ १६ ॥

कमलमित्यादि । हे मदिरेक्षणे रक्तनेत्रे, तव वदनं पद्ममिव चारु । बाहुद्वयं बिसमिव मृदु । कबरी केशवेशो भ्रमरपङिक्तरिव नीलोऽस्ति । मदिरावद्रक्तमीक्षणं नेत्रं यस्याः सा । ‘कबरी केशवेशोऽथ’ इत्यमरः । इह कमलमुपमानम्, इवपदं द्योतकम्, चारुपदं तुल्यधर्मोपस्थापकम्, वदनमुपमेयमिति पूर्णता, पदार्थयोः सादृश्यं वाक्यार्थः, सामान्यधर्मादीनां विरहे लोपे लुप्ता तर्हि सर्वलोपे उपमैव न स्यादत आह—प्रतीयमान इति । तथात्वेऽपि प्रसिद्धैव कान्त्यादितुल्यधर्मप्रतीतिरिति भावः ॥