475 कीर्तनमभिधानं सा तुल्ययोगिता । गुणोऽत्र धर्मः साधुरसाधुर्वा । अत्र एव स्तुतिर्वा निन्दा वा स्यात् ॥

सा अभिधीयमानतुल्यगुणत्वेन स्तुत्यर्था यथा—

‘शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः ।
इमां लङ्घितमर्यादां चलन्तीं बिभृथ क्षितिम् ॥ ११७ ॥’

अत्राभिधीयमानमहत्त्वादिगुणोत्कृष्टाभ्यां शेषाहितुषारशैलाभ्यां सह स्तुत्यर्थं तुल्ययोगेन क्षितिपतेरभिहितत्वादियं स्तुत्यर्था तुल्ययोगिता ॥

शेष इत्यादि । शेषः सर्पंभदो हिमालयस्त्वं च सर्वे यूयमिमां क्षितिं बिभृथ धारयथ । कीदृशाः । महान्तो महत्त्ववन्तः गुरवो गुरुत्वाश्रयाः स्थिराः स्थैर्यवन्तश्च । कीदृशीम् । लङ्घितातिक्रान्ता मर्यादा यया तामत एव चलन्तीमितस्ततो गामिनीं च । अत्र महत्त्वादिकमभिहितम् । भूपस्य च शेषहिमाद्रिभ्यां तुल्यताख्यापनेनोत्कृष्टसाम्यकथनात्स्तुतियोगः ॥

अभिधीयमानतुल्यगुणत्व एव निन्दार्था यथा—

‘संगतानि मृगाक्षीणां तडिद्विलसितान्यपि ।
क्षणद्व्यं न तिष्ठन्ति घनारब्धान्यपि स्वयम् ॥ ११८ ॥’

अत्र घनारब्धान्यपीत्यादिभिरभिधीयमानतुल्यगुणानां मृगाक्षीसंगतानां तडिद्विलसितानां च निन्दार्थं तुल्ययोगेनाभिधानादियं निन्दार्था तुल्ययोगिता ॥

संगतानीत्यादि । मृगाक्षीणां संगतानि संगमाः स्वयं घनं निरन्तरमारब्धान्यपि कृतान्यपि, तथा तडितां विद्युतां विलसितानि च घनैर्मेधैरारब्धान्यपि क्षणद्वयमारम्भक्षणादूर्ध्वमपरमपि क्षणं न तिष्ठन्ति; कुतो दीर्घकालम् । अत्र प्रसिद्धचापलया विद्युता स्त्रीणां संगमस्य चपलता समीकृत्योच्यत इति निन्दातुल्ययोगितेयम् ॥

प्रतीयमानतुल्यगुणत्वे स्तुत्यर्था यथा—

‘यमः कुबेरो वरुणः सहस्राक्षो भवानपि ।
बिभ्रत्यनन्यविषयां लोकपाल इति श्रुतिम् ॥ ११९ ॥’