युवेत्यादि । स्वयंवरे कस्मिन्नपि नृपे दर्शितभावां सखीं निवर्तयितुं कापि स्तुतिव्याजात्तं निन्दति । युवत्वगुणित्वनृपत्वबलवत्त्वेभ्य एष तव पतिर्योग्यः । यस्य कामोत्सवादपि विषयोत्सवमनादृत्य रणोत्सवे मनः सक्तमासक्तम् । निर्विविक्षोरुपभोक्तुमिच्छोः कन्यायाः । ‘निर्वेश उपभोगः स्यात्’ इत्यमरः । अत्र विदग्धया सख्या राजकोपशान्तये भोगेच्छुं प्रति वीर्यप्रकर्षरूपस्तवस्य दोषत्वेऽपि गुणत्वेनाल्पतयोपन्यसनाल्लेशोऽयं दोषस्य गुणीभावलक्षणः । अल्पतयैवात्र लेशता ॥