399
दीपकक्रमपर्यायातिशयश्लेषभाविकाः ।
संसृष्टिरिति निर्दिष्टास्ताश्चतुर्विंशतिर्बुधैः ॥ ४ ॥

शब्देभ्य इति । यासूभयालंक्रियासु इवादिभ्यः शब्देभ्यो विशिष्ट उपमादिरूपोऽर्थो ज्ञायते ता उभयालंक्रियाः स्युः । कीदृश्यः । कवीनां प्रियाः प्रीतिविषयाः, उपमादीनां कविसर्वस्वायमानत्वात् । शब्दश्चार्थश्चेत्युभयम् । सह तुल्ययोगितया वर्तते इति सतुल्ययोगिता । एवमितरेष्वपि । परिष्कृतिः परिकरः । भाविकैरिति सहार्थे तृतीया ॥

अथोपमालंकारनिरूपणम् ।

प्रसिद्धेरनुरोधेन यः परस्परमर्थयोः ।
भूयोऽवयवसामान्ययोगः सेहोपमा मता ॥ ५ ॥

उपमालक्षणमाह—प्रसिद्धेरिति । अर्तयोरूपमानोपमेययोर्मिथो यो भूयसा प्रचुराणामवयवसामान्यानामेकदेशसाधर्म्याणां योगः संबन्धः, सा इह ग्रन्थे [शास्त्रे] उपमा मता । तर्हि मुखं कमलमिवेतिवत् कुमुदमिवेत्यपि स्यादत आह—प्रसिद्धेरिति । प्रसिद्धेर्लोकप्रसिद्धेरनुरोधेन पुरस्कारेण । तथा च कुमुदमुखयोरुपमा न लोकप्रसिद्धेति दोषः ॥

एकाभिधीयमाने स्यात्तुल्ये धर्मे पदार्थयोः ।
प्रतीयमानेऽप्यपरा द्विविधापि च सा त्रिधा ॥ ६ ॥
पदवाक्यप्रपञ्चाख्यैर्विशेषैरुपपद्यते ।
पृथगष्टविधत्वेन ताश्चतुर्विंशतिः पुनः ॥ ७ ॥

इहाभिधीयमानार्थप्रतीयमानार्थविषयतयोपमा द्विधा । सापि पदवाक्यप्रपञ्चभेदात्त्रिधा । तासां त्रिधाभूतानां प्रत्येकमष्टविधत्वेन चतुर्विशतिप्रकारोपमेत्याह—पदेत्यादि ॥

पदोपमाया अष्टविधत्वमाह—

समासात्प्रत्ययाच्चैव द्विविधा स्यात्पदोपमा ।
या समासोपमा तत्र चतुर्धा साभिपद्यते ॥ ८ ॥