कमलमित्यादि । हे मदिरेक्षणे रक्तनेत्रे, तव वदनं पद्ममिव चारु । बाहुद्वयं बिसमिव मृदु । कबरी केशवेशो भ्रमरपङिक्तरिव नीलोऽस्ति । मदिरावद्रक्तमीक्षणं नेत्रं यस्याः सा । ‘कबरी केशवेशोऽथ’ इत्यमरः । इह कमलमुपमानम्, इवपदं द्योतकम्, चारुपदं तुल्यधर्मोपस्थापकम्, वदनमुपमेयमिति पूर्णता, पदार्थयोः सादृश्यं वाक्यार्थः, सामान्यधर्मादीनां विरहे लोपे लुप्ता तर्हि सर्वलोपे उपमैव न स्यादत आह—प्रतीयमान इति । तथात्वेऽपि प्रसिद्धैव कान्त्यादितुल्यधर्मप्रतीतिरिति भावः ॥