485
इतरेतरयोगो यः समाहारो य उच्यते ।
अन्वाचय इहान्यो यः सोऽपि नान्यः समुच्चयात् ॥ ६१ ॥
द्विपदाश्रयश्चापि स स्यात्स स्याद्बहुपदाश्रयः ।
उभयाश्रयश्च स स्यात्स स्यादनुभयाश्रयः ॥ ६२ ॥
त्रयः प्रतिपदं वा स्युर्द्योतकैरुत्तरत्र वा ।
पदैः शुद्धाश्च मिश्राश्च तुरीयो द्योतकं विना ॥ ६३ ॥

द्रव्येति । द्रव्यादीनामेकक्रियादिसमावेशः समुच्चयः । इतरेतरयोगादीनां समुच्चयामेदमाह—इतरेति । इतरेतरयोगः परस्परापेक्षावयवभेदानुगतः समुच्चयः । समाहारस्तिरोहितावयवभेदः संहतिप्रधानः समुच्चय एव, अन्वाचयो यत्रैकं प्रधानमन्यदप्रधानमन्वीयते सः । समुच्चयं विभजते—द्विपदेति । उभयं द्विपदबहुपदे । अनुभयमद्विपदबहुपदे । एषु मध्ये आद्यास्त्रयः प्रतिपदं वोत्तरत्र वा पदद्योतकैः सह संभवन्तीत्याह—त्रय इति । त्रय एव शुद्धा मिश्राश्च भवन्ति । तुरीयोऽनुभयाश्रयः समुच्चयो द्योतकं चकारादिकं विनैव भवति ॥

तत्र द्विपदाश्रयः प्रतिपदाश्रितद्योतकत्वेन द्रव्ययोः क्रियासमुच्चयो यथा—

‘निर्यता परिजनेन बोधितः स्फूर्जमानरुचिरुल्लसद्दशः ।
द्वारसंवलनमांसलोऽधिकं दीपकश्च मदनश्च दिद्युते ॥ १३५ ॥’

अत्र दीपकश्च मदनश्चेति द्वे द्रव्ये प्रतिपदं चकारेणैकस्यां दिद्युते इति क्रियायां समुच्चयेन निवेशिते; तेन दिद्युताते इति द्विवचनम्, दीपकमदनाविति चार्थे द्वन्द्वश्च न भवति ॥

निर्यतेत्यादि । दीपकः प्रशस्तदीपश्च मदनः कामश्चाधिकं दिद्युते दीप्तो बभूव । कीदृशः । निर्यता गच्छता सेवकेन सख्यादिना च बोधितः प्रकाशितो जागरितश्च । स्फूर्जमाना स्फुरन्ती रुचिर्दीप्तिरनुरागश्च यस्य सः । उल्लसन्ती दशा वर्तिरवस्था च स्य सः । द्वारे गृहद्वारे मदनबोधकभावे च संवलनं मिलनं तेन मांसलः स्फीतः । दीपक इति प्रशंसायां कन् । दिद्युत इति ‘द्युत दीप्तौ’ इत्यस्य लिटि रूपम् ।