अप्राकृत इत्यादि । स नृपतिर्विस्मयाय कथं नास्तु । कीदृशः । अप्राकृतोऽनीचः । महाजन इति यावत् । ‘नीचः प्राकृतश्च पृथग्जनः’ इत्यमरः । यस्मिन् करुणा दया, कृतज्ञता विज्ञता, लक्ष्मीः संपत्तिः, सात्त्विकगुणेन जाज्वल्यमानं तेजश्च, धर्मः सुकृतं, मानो विनयः, पराक्रमश्चोवास वसति स्म । इह कारुणिकस्य करुणामात्रप्रवृत्त्या कृतज्ञतायाः साहजिकोऽभाव इति । तथा चास्मिन्नुभयमिति महाजनतास्य सूचिता । तथाप्यलक्ष्मीकस्य न किमपि श्लाघाविषय इति सलक्ष्मीकतोक्ता । तथापि निःसात्त्विकस्य कुतो महाजनत्वमतः सात्त्विकगुणाधिक्यमुक्तम् । निष्प्रतापस्य सर्वमुक्तं लक्षणलशोभाकरमेव भवतीति तेजस आधिक्यमुक्तम् । भवतु यथोक्तगुणसंपत्तिः, अधार्मिके सर्वे गुणा विगुणायन्ते । तदर्तमाह—धर्मश्चेति । मानविनयपराक्रमाः प्रत्येकं महापुरुषे विशेषगुणा इति तेऽप्युक्ता इति । अत्रानेकपदाश्रितचकारैरेकाक्रियायां नानागुणाः समुच्चयेन निवेशिता इति समुच्चयता ॥ तदभावे दोषमाह—तेनेति । असमुच्चयनिवेशे करुणादय ऊषुरिति स्यादित्यर्थः । यस्मिन्निति । यदि यस्मिन्नित्यैकद्रव्ये गुणसमुच्चयविवक्षात्र तदा सोऽपि भवतीत्यर्थः ॥