407

अत्र तन्त्रेण सदृशयोरनभिधानात्सादृश्यस्य पुनरुपमानोपमेयभावविवक्षितेन श्लेषतोऽन्यत्वे सतीतरेतरयोगेनोपमानोपमेययोरेकशेषेण च तद्विशेषणयोः समुदायेनाभिधानादिवादिमन्तरेणाप्युपमानादीनां चतुर्णामपि पूर्णत्वे सत्युक्तार्थत्वादिवादिर्लुप्यत इति पूर्णलुप्तानामेयं पदार्थोपमासु वाक्योपमाभक्तिः ॥

त्वदित्यादि । इदं विवृतं सदृशव्यतिरेकस्थले । तन्त्रेण प्राधान्येन । ‘तन्त्रं प्रधाने सिद्धान्ते’ इति मेदिनीकारः । यद्वा तन्त्रेण एकार्थप्रयोजकेनेह सदृशयोर्मुखपद्मयोः प्रधानाङ्गभावेनाभिधानं तुल्यता च पदार्थः । एवं च मिथोऽन्वयेनोपमानोपमेयत्वाभिधानम् । फुल्ले इति विशेषणद्वयम् । एकशेषेण हेतूपमानोपमेयतुल्यधर्मद्योतकपूर्णता । इवादिलोपस्तूक्तार्थत्वादतः पूर्णलुप्तेयम् । यत्र समकक्षतया द्वयोरभिधानं तत्र श्लेष एवेत्यतिव्याप्तिरत आह—श्लेषत इति । वाक्यार्थस्य वाक्यसापेक्षतया तद्भेदता ॥

या तु वाक्यार्थयोः सापि चतुर्धैकेवशब्दिका ।
नैकेवशब्दिकेवादिशून्या वैधर्म्यवत्यपि ॥ १८ ॥

तास्वेकेवशब्दा यथा—

‘पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥ १३ ॥’

अत्र हिमवत्पाण्ड्ययोर्निर्झरहारयोर्बालातपहरिचन्दनयोश्च परस्परमुपमानोपमेयविवक्षायां विशेषणविशेष्यभावपरिकल्पनेन वाक्यार्थयोर्द्वयोरपि कल्पितत्वादेकेनैवेवशब्देन तयोः परस्परमुपमानोपमेयभावोऽभिहितः इतीयमेकेवशब्दानाम वाक्यार्थोपमासु वाक्योपमाभक्तिः ॥

एक एवशब्दो यस्यां सा ॥ पाण्ड्य इति । अयं पाण्ड्यो राजभेदः शोभते । कीदृशः । अंसे स्कन्धेऽर्पितो दत्तो लम्बहारो येन सः । हरिचन्दनेन चन्दनमेदेन कृताङ्गानुलेपनश्च, अभिनवकिरणलोहितशृङ्गः प्रवहन्निर्झरश्च हिमवानिवाभाति । इह द्वयोर्वाक्यार्थयोरुपमानोपमेयभाव एकेनैवेवपदेनोक्त इत्येकेवोपमेयम् ॥