498 ग्रामः—’ इत्यादि कारणमुक्त्वा ततः ‘किं म्रियताम्’ इति प्रतिकूल्येन रुध्यते । तत्र किमः काक्वा सासूयप्रश्नार्थस्य युक्त्या निषेधार्थत्वं गम्यते; सोऽयं यौक्तः प्रतिकूलनिषेधाक्षेपो रोध इत्युच्यते ॥

पउर इत्यादि । "प्रचुरयुक्को ग्रामो मधुमासो यौवनं पतिः स्थविरः । जीर्णसुरा स्वाधीना असती भा भवतु किं म्रियताम् ॥" काचिद्वृद्धपतिका चलचित्तेति ज्ञात्वा कयाचित्कस्यैचित्कथितम् । सा तु तत्रोत्तरमाह—प्रचुर इति । प्रचुरा बहवो युवानस्तरूणा यत्र तादृशः । ‘शेषाद्विभाषा ५।४।१५४’ इति कप् । मधुमासो वसन्तः, यौवनम्, स्वामी स्थविरो वृद्धः । जीर्णसुरा पुराणमद्यं स्वाधीनं निजायत्तमतोऽसती सा मा भवतु किं म्रियताम् । यद्यस्मिन् वत्सरे सा चञ्चला न स्यान्म्रियेतैवेत्यर्थः । सुरा जीर्णा प्रीतिकरीति मद्यपप्रसिद्धः । अत्र किं म्रियतामिति किमः काकुगर्भतया सासूयप्रश्नार्थता युक्त्या निषेधविषयिणी ज्ञायत इति रोधोऽयम् ॥

यक्त्यैव निषेधेऽनुकूलो यथा—

‘कह मा झिज्जउ मज्झो इमाइ 175कन्दोट्टदलसरिच्छेहिं ।
अच्छीहिं जो ण दीसइ घणथणभररुद्धपसरेहिं ॥ १५५ ॥’
[कथं मा क्षीयतां मध्योऽस्याः कुवलयदलसदृक्षाम्याम् ।
अक्षिम्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम् ॥]

अत्र ‘स्तनादिवदस्या मध्योऽपि मा क्षीयताम्’ इति निषेधवादी केनचिदानुकूल्येन रूध्यते । कथमयं मा क्षीयतामिति । योऽस्याःकुवलयदलसदृक्षाभ्यां लोचनाभ्यां घनस्तनरुद्धप्रसराभ्यां न दृश्यते । इयं ह्येताभ्यामन्यमीक्षमाणा यन्न पश्यति सोऽहमिव मध्योऽपि क्षीयमाणो लक्ष्यते तत्र किमः प्रश्नार्थत्वे निषेधार्थत्वं गम्यते; सोऽयं यौक्तोऽनुकूलश्च निषेधाक्षेपो रोध इत्युच्यते ॥

कहमित्यादि । "कथं मा क्षीयतां मध्योऽस्याः कुवलयदलसदृक्षाभ्याम् । अक्षिभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम् ॥" इहास्या नायिकाया मध्यः कथं मा क्षीयतां न क्षीणतां यातु । योऽस्याः कुवलयदलतुल्याभ्यामक्षिभ्यां निबिड-

  1. ‘उप्पलिए कलमकन्दोट्टा’ इति देशीनाममाला