511 शब्दस्य वस्तुतया परिगृहीतस्य ‘देवी पुत्रमसूत—’ इत्यादिभिः परिकरितत्वादयं वस्तुपरिकरः ॥

देवीत्यादि । देवी गौरी पुत्रमसूत सूते स्म । ततो हे गणाः, नृत्यत नृत्यं कुरुक किमुपविष्टा भवथ इति कृत्वा उद्भुजे उत्तोलितबाहौ भृङ्गिरिटौ भृङ्गिनामके गणे चामुण्डया आलिङ्गिते सति तयोर्भृङ्गिरिटिचामुण्डयो रवः शब्दो वो युष्मान् पायाद्रक्षतु । चामुण्डया कीदृश्या । हर्षादुदाहृतोक्ता गीर्भृङ्गिरिटिवाणी यया तया । रवः कीदृशः ॥ परस्पराङ्गसंबन्धेन जर्जरं स्फुटितं यज्जीर्णं स्थूलास्थि तस्माज्जन्म उत्पत्तिर्यस्य सः । जिता देवदुन्दुभेर्देवभेर्या निबिडध्वानस्य प्रवृत्तिर्येन सः । ‘भेर्यामानकदुन्दुभी’ इत्यमरः । अत्र शब्दविशेषस्य वस्तुत्वेन गृहीतस्य विशेषणैः परिष्कारः ॥

क्रिया यथा समासेन तथा कृत्तद्धितादिभिः ।
विशेष्यते तदाहुस्तं क्रियापरिकरं परम् ॥ ७३ ॥

क्रियेति । यथा समासेन क्रिया विशेष्यते तथा यदि कृत्तद्धितादिभिर्विशेष्यते तदा क्रियापरिकर एव ॥

तत्र कृता तादर्थ्येन यथा—

‘गेहाद्याता सरितमुदकं हारिका नाजिहीषे मङ्क्ष्यामीति श्रयसि यमुनातीरवीरुद्गृहाणि ।
गोसंदायी विशसि विपिनान्येव गोवर्धनाद्रे- र्न त्वं राधे दृशि निपतिता देवकीनन्दनस्य ॥ १७७ ॥’

अत्र ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ३।३।१०’ इत्यादिभिरुपपदभूतापि क्रियैव विशेष्यते, तेनायमपरः क्रियापरिकरो भवति । एवं लक्षणादिषु शत्रादिभिरपि द्रष्टव्यम् ॥

गेहादित्यादि । हे राधे, त्वं देवकीनन्दनस्य कृष्णस्य दृशि नेत्रे न निपतितासि । त्वं गेहात्सरितं नदीं याता गता उदकं हारिका उदकमाहर्तुं न पुनराजिहीषे न पुनरागच्छसि । मङ्क्ष्यामि स्नास्यामीति कृत्वा यमुनातीरे वीरुधां लतानां गृहाणि श्रयस्याश्रयसि । गोसंदायी गवां बन्धनकारिणी सती गोवर्धनाद्रेर्वनान्येव