512 विशेसि च । हारिकेंति ‘हञ् हरणे’ तुमुनर्थे ण्वुल् । आजिहीषे इति ‘ओहाङ् गतौ’ (आङ्पूर्वः) मध्यमपुरुषैकवचने ‘श्लो ६।१।१०’ इति द्विर्वचनम् । ‘मृञामित्७।४।७५’ इत्याकारस्येत्त्वम् । मङ्क्ष्यामीति मस्जेर्लटि उत्तमपुरुषे । ‘मस्जेरन्त्यात्पूर्व’ इति नुमि नकारलोपे च रूपम् । ‘लता प्रतानिनी वीरुद्’ इत्यमरः । गोसंदायीति संदानं बन्धनम् । ‘छान्द’ इति प्रसिद्धम् । अत्र ण्वुलादिकृता तादर्थ्यपुरस्कारेण क्रिया विशेष्यते । एवमिति । यत्र ‘लक्षणहेत्वोः ।३।२।१२६', ‘इङ्धार्यौः’ शत्रकृच्छ्रिणि २।३।१३०’ इत्यनेन लक्षणादिशत्राद्यन्तेन क्रिया विशेष्यते तत्रापि क्रियापरिकरो द्रष्टव्यः । यथा पुष्पात् स्ववृक्षे स्वयं गतः फलतस्तु समायात इत्यादि(?) ॥

अव्ययेन यथा—

‘सलीलमासक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम् ।
स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया ॥’

अत्र स्तनाभ्यामुपपीडयन्त्यायं नुनुदे इति । अर्थात् क्रियाविशेषणमेवैतदित्ययमपि क्रियापरिकरो भवति ॥

एवं यथाविध्यनुप्रयोगादिष्वपि द्रष्टव्यम् । तेन क्रियायाः क्वचिदान्तरविशेषणयोगाव्द्यङ्ग्यत्वं भवतीत्यपि व्याख्यातम् ॥

सलीलमित्यादि । कश्चिन्नायकः प्रियया जघनेन नुनुदे प्रेरितः । स्तनोपपीडं स्तनाभ्यामापीड्य । जघनेन कीदृशेन । नितम्बिना कटितटवता निबिडेन च । कान्तया कीदृश्या । सलीलं सविलासं यथा स्यादेवं पुष्पावतंसकं समासजन्त्या आरोपयन्त्या । कीदृशम् । आसक्तं संबद्धं लताभूषणं यत्र तत् । स्तनोपपीडमिति ‘सप्तम्यां चोपपडी ३।४।४९’ इति णमुल् । अत्र णमुलाव्ययेन नोदनक्रियाया विशेषणं परिकरः ॥ एवमिति । तत्र हि यस्माद्धातोर्लोडादिस्तस्मादेवाग्रिमप्रत्यय इति क्रियाया विशेषणत्वेन परिकरता ॥

यथा—

‘शय्यन्ते हतशायिकाः पथि तरुच्छायानिषण्णाध्वगैः श्रीकण्ठायतनेषु धार्मिकजनैरास्यन्त उष्ट्रासिकाः ।
शून्ये तत्र निकुञ्जशाखिनि सखि ग्रीष्मस्य मध्यंदिने सज्जानां दयिताभिसारणविधौ रम्यः क्षणो वर्तते ॥ १७९ ॥’