515

शतमित्यादि । हे प्रियसखि, तथापि स धृष्टो मां क्लिश्यन् क्षणमपि न विरमति न विरक्तो भवति । कीदृशः । परुषैर्निष्ठुरैर्वचनैः शतं वारान्यथा स्यादेवमुक्तः, पदे निपतितः, स च पार्ष्णिहतिभिः पादतलप्रहारैः सहस्रं वारान्निर्धूतश्चालितः, इह विषये भ्रुकुटयः पुनः कियत्कृत्वः कियद्वारान् न बद्धा इति न वेद्मि । वारानिति ‘वृञ् वरणे’ भावे घञ् । तेन वारपदमावृत्तिवचनं स्वत एव कियत्कृत्व इति । ‘निष्ठुरं परुषं ग्राम्यम्’ इत्यभरः । अत्र वारशब्दः कृदन्तः । कियत्कृत्व इत्यत्र वारसंख्यावाचकतायां कृत्वसुजिति कृदर्थता । कृदन्तस्य कृदर्थस्य चावृत्तिरूपेण पौनःपुन्यतया क्रियाविशेषणता । ‘नपुंसकत्वं कर्मत्वं तुल्यत्वं च तथैकता । क्रियाविशेषणस्यैव मतं सूरिभिरादरात् ॥’ इति मतमनुमत्य क्लीबत्वमुष्ट्रासिकादीनां शङ्कते—नन्विति । समाधत्ते—त्रिधेति । यत्र धर्मधर्मिणोरभेदोपचारस्तत्र धर्मोऽजहत्स्वरूप एव धर्मिविशेषकः । सोऽयमित्यादौ विशेषरूपेण लिङ्गसंख्ययोरन्वये उष्ट्रासिकादौ कथमन्यलिङ्गग्रहः । ‘गुणवचनानामाश्रयतो लिङ्गवचनानि’ इति गुणरूपाणां विशेष्यलिङ्गता ॥

183तद्धितकृत्वसुचोक्तः, थालादिनोच्यते—

यथा—

‘अकृतकवलारम्भैर्भूयो भयस्थगितेक्षणाः किमपि वलितग्रीवं स्थित्वा मुहुर्मृगपङ्क्तयः ।
गगनमसकृत्पश्यन्त्येतास्तथाश्रुघनैर्मुखै- र्निपतति यथा शृङ्गाग्रेभ्यो भ्रमन्नयनोदकम् ॥ १८१ ॥’

अत्राद्यः प्रकारवचने थाल् अनेकवारानित्यर्थे ‘असकृत्’ इति तद्धितेन, ‘पश्यन्ति’ इति 184क्रियायाम्, ‘वलितग्रीवम्’ इति समासेन, ‘किमपि’ इति नाम्नाव्ययेन, ‘स्थित्वा’ इति कृता, ‘मुहुः’ इति कृदर्थे वीप्सया च क्रियाविशेषणेन सह विशेषयति, द्वितीयश्च ‘यथा भ्रमन्नयनोदकं निपतति’ इति शतृलक्षितया ‘पतति’185 इति क्रियया तमेवार्थमनुसंदधानः पूर्वक्रियाया एव विशेषणं भवति, 186सोऽयं कृत्तद्धित-

  1. तद्धितकृत्समासाव्ययोक्तस्थानादिनोच्यते’ घ
  2. ‘क्रियाम्’ ‘क्रियायाः’ वा भवेत्
  3. ‘पतनक्रियया’ क ख
  4. ‘योऽयम्’ ग घ