अम्बेत्यादि । अम्बा माता न मया तुष्यति तुष्टा भवति । न स्नुषया पुत्रवध्वा तुष्यति । सापि स्नुषा नाम्बया न मया च तुष्यति । अहमपि न तयाम्बया न तया स्नुषया च तुष्यामि । हे राजन्, कस्य दोषोऽयमिति वद । वदेत्यत्र वाक्यार्थस्यैव कर्मता । ‘अम्बा माताम्बिकापि च’ इति रत्नकोषः । ‘समाः स्नुषाजनीवध्वः’ इत्यमरः । अत्राम्बाद्यर्थैस्तद्वाचकशब्दैश्च मयेत्यादेः परिष्कारः ॥ इति परिकरालंकारनिरूपणम् ॥