अत्र पूर्वार्धे त्वमिति शब्दार्थयोः प्रथमावृत्तिः प्रथमपादस्थया 528 ‘असि’ इति क्रियया दीप्यते । ततस्तृतीयपादे ‘त्वयि’ इति रूपान्तरेण युष्मदर्थ आवर्त्यमानः क्रियान्तरेण संबध्यते, चतुर्थपादे पुनरपि तेनैव रूपेणास्त्यर्थेन भवतिना संबध्यत इति; सेयं वृत्तीनामावृत्तिरावलीति दीपकस्यैव भेदो भवति ॥