410

अत्र वसन्तलक्ष्मीपरिष्कृतलतानां ललनानां च प्रतीयमानसादृश्यानामुपमानोपमेयभावविवक्षायां येयमलिवलयादिभिरलकादीनां प्रतीयमानसादृश्यानामेव पृथक्पृथगिवशब्दप्रयोगवतीति विस्तरेणावयविनोऽवयवानां चेति सामस्त्येन वाक्यार्थयोरौपम्योक्तिभङ्गिः । सेयं समस्तोपमानाम प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥

अलीत्यादि । लता वसन्ते ललना इव स्त्रिय इवाधिकं शोभन्ते । कैः । अलकैरिव भृङ्गवृन्दैः, पुष्पगुच्छैः कुचैरिव, पल्लवैः पाणिभिरिव । इहावयविनोर्लतास्त्रीरूपयोरवयवानामेकदेशानामलिवलयालकादीनां सामग्र्येणोपमानोपमेयभावात् समस्तोपमेयम् । तेषां च प्रकृतत्वं प्रसिद्धमेव ॥

एकदेशोपमा यथा—

‘कमलदलैरधरैरिव दशनैरिव केसरैर्विराजन्ते ।
अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः ॥ १८ ॥’

अत्र नलिनीनां विलासिनीनां च परस्परमुपमानोपमेयभावे वक्तव्ये विलासिनीलक्षणमुपमानार्थम्, एवमवयवान्तराणि च यानि स्तनाद्युपमेयानि, तानि परित्यज्य कमलमेवैकं तदवयवैर्दलादिभिः सहाधरादिभिरुपमानैः पृथक्पृथगिवप्रयोगाद्विस्तरेणोपमितम् । तेनेयमेकदेशोपमा नाम प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥

कमलेति पद्मिन्यः शोभन्ते । कैः । अधरैरिव पद्मपत्त्रैः, दन्तैरिव किंजल्कैः, अलकैरिव भृङ्गसंघैः, मुखैरिव पद्मैः । इह विस्तरोपमया प्रपञ्चोपमा, हंसस्तनादित्यागात्कमलदलादिना सहाधरादेरेकदेशस्योपमया चैकदेशोपमेयम् ॥

मालोपमा यथा—

‘सोहव्व लक्खणमुहं वणमालव्व विअडं हरिवइस्स उरम् ।
कित्तिव्व पवणतणअं आणव्व बलाइं से विलग्गइ दिट्ठी ॥ १९ ॥’
[शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः ।
कीर्तिरिव पवनतनयमाज्ञेव बलान्यस्य विलगति दृष्टिः ॥]