413

तवेति । हे प्रिये, त्वां कथं नु लभेमहि । कीदृशीम् । पद्मिनीकदम्बे निलीनां स्थिताम् । मुखेनापि न लाभ इत्याह—तव मुखमिव पद्मम् पद्ममिव मुखम् । इह प्रथमपक्षे विपर्यासोऽथोभयोपमानोपमेयभावादुभयोपमेयम् ॥

उत्पाद्योपमा यथा—

‘उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् ।
तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ २३ ॥’

अत्रोपमानार्थमुत्पाद्योपमेयेन प्रतीयमानमभिधीयमानं च सादृश्यमभिहितमिति सेयमुत्पाद्योपमानाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥

उभाविति । उभावित्यादिविवृतोऽयं श्लेषगुणे । इह यद्येते पतेतामित्युपमानता तस्योत्पाद्यत इतीयमुत्पाद्योपमा । अनेकेषामुपमितेः प्रपञ्चोफ्मात्वम् ॥

अनन्वयोपमा यथा—

‘त्वन्मुखं त्वन्मुखमिव त्वद्दृशौ त्वद्दृशाविव ।
त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ॥ २४ ॥’

अत्र त्वमेवेदृशी नान्या त्वत्सदृशीत्यनन्वये सति उपमानोपमेयभावविवक्षयैकस्यापि वस्तुनो भेदमुपकल्प्य प्रतीयमानसादृश्यमौपम्येनाभिहितमिति सेयमनन्वयोपमानाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥

त्वदित्यादि । विवृतोऽयं लाटानुप्रासे । इहान्या त्वत्सदृशी नेत्युपमानान्तरसंबन्धाभावोऽनन्वयः । तदुपमितिः कथं तस्या भेदगर्भत्वादत आह—एकस्यापीति । तथा चाभेदेऽपि भेदकल्पनाददोषः । औपम्येनोपमायाः, स्वार्थे कः ष्यञ् । इत्युपमालंकारनिरूपणम् ॥

रूपकालंकारनिरूपणम् ।

रूपकलक्षणमाह—

यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात् ।
उपमेये भवेद्वृत्तिस्तदा तद्रूपकं विदुः ॥ २४ ॥

यदेति । यदोपमानपदानां पद्मादीनामुपमेयेषु मुखादिषु वृत्तिर्बोधकता भवे-