यदेति । यदोपमानपदानां पद्मादीनामुपमेयेषु मुखादिषु वृत्तिर्बोधकता भवे-414 त्तदा रूपकम् । कथमन्यस्यान्यबोधकतातिप्रसङ्गात् । तत्राह—गौणेति । गौणवृत्तिर्गैणी तदाश्रयणात् । तथा च गौणान्यस्यान्यबोधकता । एवं च यत्रोपमानोपमेयपदाभ्यामभेदो गुणादिपुरस्कारेण बोध्यते तत्र रूपकं, यत्र सादृश्यमात्रं तत्रोपमेति तयोर्भेदः ॥