हरीत्यादि । शिरसि अग्रं लग्नं बलिवञ्चने त्रिविक्रमदशायां ब्रह्माण्डाप्तौ ब्रह्मणा पाद्यार्थमावर्जितं यज्जह्नुकन्याया गङ्गाया जलं तदेवांशुकं वस्त्रमिव यत्र तादृशो हरेर्वामनरूपस्य पादो बलिविजयादसुरेभ्यो निःशङ्कानां देवानां हर्षोत्सवे ध्वज एव जयति । अत एव जाह्नवीजलमंशुकत्वेन रूपितम्, तेन विना ध्वजानुपपत्तेः ‘शिरोऽग्रे मस्तकेऽपि च’ इति मेदिनीकारः । इह पादध्वजयोर्विशेषणवतोरेव रूपणात् सविशेषणरूपकता । प्रकृतत्वं प्रस्तुतत्वम् । तच्च समासादिभिरेवेति प्रकृतरूपकता ॥