422

तेषु सहजावयवं यथा—

‘पप्फुरिअउट्ठदलअं तक्खणविगलिअरुहिरमहुविच्छड्डम् ।
उक्खडिदअण्ठणालं पडिअं फुडदसणकेसरं मुहकमलम् ॥ ३७ ॥’
[प्रस्फुरितोष्ठदलं तत्क्षणविगलितरुधिरमधुविच्छर्दम् ।
उत्खण्डितकण्ठनालं पतितं स्फुटदशनकेसरं मुखकमलम् ॥]

अत्रौष्ठादीनां दलादीनां च मुखाम्भोजावयवानां स्फुरितविगलितोत्खण्डितस्फुटविशेषणविशिष्टानां परस्परमुपमानोपमेयभावरूपितानां मुखपक्षे कमलपक्षे च सहजत्वं गम्यत इति सहजावयवो नामायमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः । नैतद्वाच्यम्—ताम्राङ्गुलिदलश्रेणीत्यादेरर्थप्रधानभेदादिदं न भिद्यत इति । तत्र हि भूपालमौलिधारणक्रियासमावेशेनावयविनः प्राधान्यं विवक्षितम्, इह तु पतनक्रियायामवयवानामत एव ते स्फुरितादिविशेषणैर्विशिष्यन्ते ॥

भेदानिति । तयोः सहजाहार्ययोर्योगस्तद्योगः, तयोर्वैषम्यं विषमावयवता । पप्फुरिअ इति । इह मुखमेव कमलं तत्पतितम् । कीदृशम् । प्रस्फुरितमोष्ठपुटमेव दलं पत्रं यत्र तत् । तत्कालविगलितरुधिरमेव मधुप्रवाहो यत्र तत् । विच्छर्दः प्रवाहः । उत्खण्डितकण्ठ एव नालो यत्र तत् । स्फुटदशना एव केसराणि यत्र तत् । इह मुखस्यौष्ठादीनि पद्मस्य पत्रादीन्यवयवास्ते च सहजा इति तत्प्राधान्यादिदं सहजावयवरूपकम् । न च ताम्राङ्गुलीत्यनेनावयविप्रधानेनास्याभेद इति वाच्यम्, तत्राङ्गिप्राधान्यस्य विवाक्षितत्वादिहाङ्गप्राधान्यस्य तत्त्वादित्याह—न चेति ॥

आहार्यावयवं यथा—

‘तो कुंभअण्णपडिवअणदण्डपडिघट्टिआमरिसघोरविसो ।
गलिअंसुअणिंमोओ जाओ भीसणणरो दसाणणभुअओ ॥ ३८ ॥’
[ततः कुम्भकर्णप्रतिवचनदण्डपरिघट्टितामर्षघोरविषः ।
गलितांशुकनिर्मोको जातो भीषणनरो दशाननभुजगः ॥]

अत्र कुम्भकर्णप्रतिवचनममर्षोऽशुकमिति दशाननपक्षे दण्डो घोर-