भेदानिति । तयोः सहजाहार्ययोर्योगस्तद्योगः, तयोर्वैषम्यं विषमावयवता । पप्फुरिअ इति । इह मुखमेव कमलं तत्पतितम् । कीदृशम् । प्रस्फुरितमोष्ठपुटमेव दलं पत्रं यत्र तत् । तत्कालविगलितरुधिरमेव मधुप्रवाहो यत्र तत् । विच्छर्दः प्रवाहः । उत्खण्डितकण्ठ एव नालो यत्र तत् । स्फुटदशना एव केसराणि यत्र तत् । इह मुखस्यौष्ठादीनि पद्मस्य पत्रादीन्यवयवास्ते च सहजा इति तत्प्राधान्यादिदं सहजावयवरूपकम् । न च ताम्राङ्गुलीत्यनेनावयविप्रधानेनास्याभेद इति वाच्यम्, तत्राङ्गिप्राधान्यस्य विवाक्षितत्वादिहाङ्गप्राधान्यस्य तत्त्वादित्याह—न चेति ॥