आधारवदिति । सोहइ इत्यादि । इह गगनमेव समुद्रस्तत्र तारा एव सुक्तास्तासां प्रकरः समूहः शोभते । कीदृशः । विशेषेणातिशयेन शुद्धकिरणः । रजन्येव वेला तीरभूमिस्तत्र लग्नः संबद्धः । स्फुटविघटिता व्यक्तीभूय विदीर्णा मेघा एव शुक्तिसंपुटास्तैर्विमुक्तश्च । इह सादृश्ये रजन्यादीनां प्रतीयमानता वेलादीनामभिधीयमानता, शुद्धरूपकता उपमाद्यसंभेदात् । गगनस्याधारतयेदमाधारवद्रूपकम् ॥