432

सअलु इत्यादि । इह सत्पुरुषे मलिनता चिरं न तिष्टति । कीदृशे । सकलोद्द्योतिता वसुधा येन तस्मिन्, समस्ते जीवलोके मर्त्यलोके विस्तीर्यमाणः प्रतापो यस्य तस्मिन् । मलिनता कीदृशी । विधानेन इतिकर्तव्यतया विधिना वापादितोत्पादिता । रवाविव यथा सूर्ये मलिनता चिरं न तिष्ठति तथेत्यर्थः । कीदृशे । सकलोज्ज्वलीकृतवसुधे समस्तजीवलोके विस्तीर्यमाणः प्रतापः प्रतपनं यस्य तस्मिन् । मलिनता कीदृशी । विहाणं प्रातः तस्मात्पतितापि । इहासाधारण्यमेव विशेषः, पूर्वतापि समस्तक्रियया प्रथमतः साम्येन ॥

गुणयोगनिमित्तसाम्या सामान्यत उत्तरा यथा—

‘रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् ।
न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप प्रतीपात् ५१’

अत्र रूपादिगुणयोगजन्मजनितं साम्य सामान्यरूपश्च पश्चात्प्रदीपदृष्टान्त इति सामान्यतो गुणयोगनिमित्तेयमुत्तरो नाम दृष्टान्तोक्तिः साम्यभेदः ॥

रूपमिति । कुमारो बालकोऽजः, स्वान्निजात्कारणात्पितुर्न बिभिदे न भेदं जगाम । अभेदे हेतुमाह—ओजस्वि दीप्तं तद्रूपं, सौकुमार्यं तदेव, वीर्यं तेजस्तदेव, नैसर्गिकं स्वाभाविकमुन्नतत्वमुच्छ्रितत्वं च । यथा दीपात्प्रवर्तित उत्पादितो दीपः स्वात्कारणाद्दीपान्न भिन्नो भवति । अत्रापि रूपादिकं तुल्यमेव । दृष्टान्तस्य प्रकृतवाक्यार्थपर्यवसाने सति पश्चादन्वय इत्युत्तरता ॥

सैव क्रियागुणद्रव्ययोगनिमित्ता विशेषतो यथा—

‘अव्वोच्छिण्णपसरिओ अहिअं उद्धाइ फुरिअसूरच्छाओ ।
उच्छाहो सुभडाणं विसमक्खलिओ महाणर्इण व सोत्तो ॥ ५२ ॥’
[अव्यवच्छिन्नप्रसृतोऽधिकमुद्धावति स्फुरितशूर(शौर्य)च्छायः ।
उत्साहः सुभटानां विषमस्खलितो महानदीनामिव स्रोतः ॥]

अत्राव्यवच्छिन्नप्रसृत इति क्रियायोगनिमित्तं स्फुरितशौर्यच्छाय इति गुणयोगनिमित्तं स्फुरितसूर्यच्छाय इति द्रव्ययोगनिमित्तं च साम्यं सामान्यविशेषरूपश्च विषमस्खलितमहानदीस्रोतोदृष्टान्त इति विशेषतः क्रियादियोगनिमित्तेयमुत्तरा नाम दृष्टान्तोक्तिः साम्यभेदः ॥