तो ताणेत्यादि । इह ततस्तेषां वानराणामालेख्यप्रदीपानामिव निजकमात्मीयं प्रकृतिचञ्चलत्वमपि विगलितमपगतम् । हता छाया प्रतिष्टा कान्तिर्वा यत्र तत् । पक्षे हता छाया आतपाभावरूपा यत्र तत् । निश्चलं लोचनमेव शिखा यत्र तत् । प्रोषितोऽन्तर्गतः प्रताप पौरुषं प्रतपनं च यत्र तत् । क्रियाविशेषणत्रयमिदम् । ‘निजमात्मीयनित्ययोः’ इति विश्चः । स्वार्थिकः कन् । अत्र छायादेर्गुणस्य क्रियाविशेषणतया क्रियाया गुणायोगः । प्रदीपस्य दृष्टान्त इति विशेषः । उत्तरा च व्यक्तैव । अथेति । उभयत्र साम्यमात्रस्योपजीवनादिति भावः । लौकिका लोकविदिताः, परीक्षकाः प्रमाणेन व्यवहारिणः । बुद्धिसाम्यस्योभयत्र तुल्यत्वादाह—न कश्चिदिति । अभेद एवेत्यर्थः । तर्ह्यभेद एव, नेत्याह—उक्तिमिति । वचनरचनयानेके भेदास्तयोरित्यर्थः । साध्येति साध्यो धर्मः सिसाधयिषितः । साधर्म्येति । साधर्म्यं समानधर्मता तस्या निमित्तं गुणादि तयोः सिद्धिरित्यर्थः । इवादिप्रयोगपुरस्कारेण शब्दालंकारता, साम्यादिपुरस्कारेण चार्थालंकारतेत्युभयालंकारतेत्याह—अत इति ।