049 चुम्बनवद्दशनच्छेद्यस्थानानीति कामसूत्रम् । भिन्नग्रामरागाणामिति । भिन्नमार्गेषु सप्तस्वराणां समवायो नोपनिबद्धः । तथा च ‘प्रांशुस्तु धैवतन्यासः पञ्चमर्षभवर्जितः । षड्जो दीव्यतां जा(या)तो भिन्नषड्ज उदाहृतः' । तमङ्गोऽप्याह—‘षाडवौडविके जाती भिन्नग्राम उदाहृतः’ इति । ततश्च षड्वा पञ्च वा स्वरा भवन्ति भिन्नग्रामे न तु सप्त । कामशास्रविरोधप्रस्तावे कथं कलाविरोध उदाह्रियत इत्यत आह—तदंशत्वादिति । गीतादिकलाचतुःषष्टेः कामाङ्गतया कामसूत्रकारैरुपदेशाद्भवति तद्विरोधे कामशास्रविरोध इत्यर्थः । आदिग्रहणाद्देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदेत्यादिकं मोक्षादिशास्त्रविरुद्धमुदाहरणीयम् ॥

दोषाणां प्रथममुद्देशोऽयमभिसंधाय कृतस्तं विशेषसंहारव्याजेन स्फुटयति—

एवं पदानां वाक्यानां वाक्यार्थानां च यः कविः ।
दोषान्हेयतया वेत्ति स काव्यं कर्तुमर्हति ॥ ५८ ॥
अलंकृतमपि श्रव्यं न काव्यं गुणवर्जितम् ।
गुणयोगस्तयोर्मुख्यो गुणालंकारयोगयोः ॥ ५९ ॥
त्रिविधाश्च गुणाः काव्ये भवन्ति कविसंमताः ।
बाह्याश्चाभ्यन्तराश्चैव ये च वैशेषिका इति ॥ ६० ॥
बाह्याः शब्दगुणास्तेषु चान्तरास्त्वर्थसंश्रयाः ।
वैशेषिकास्तु ते नूनं दोषत्वेऽपि हि ये गुणाः ॥ ६१ ॥
चतुर्विंशतिराख्यातास्तेषु ये शब्दसंश्रयाः ।
ते तावदभिधीयन्ते नामलक्षणयोगतः ॥ ६२ ॥
श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिस्तथा कान्तिरुदारत्वमुदात्तता ॥ ६३ ॥
ओजस्तथान्यदौर्जित्यं प्रेयानथ सुशब्दता ।
तद्वत्समाधिः सौक्ष्म्यं च गाम्भीर्यमथ विस्तरः ॥ ६४ ॥
संक्षेपः संमितत्वं च भाविकत्वं गतिस्तथा ।
रीतिरुक्तिस्तथा प्रौढिरथैषां लक्ष्यलक्षणे ॥ ६५ ॥