058 (सार)बलेनावगम्यते । उन्मादगृहीतोऽपि वृक्षारोहणादिकमसमञ्जसमव्यवस्थितं च करोति । वन इत्यनेन यत्र सर्वथैव प्रतीकारासंभव इति निरङ्कुशोन्मादचेष्टितमेवोपबृंहयति । नगैः स्पर्धते पर्वतोच्छ्रायमनुकरोतीति दूरप्रसृत उन्मादः । खं व्यालेढीत्यत्रापि तथैवाभिप्रायः । किं तद्यदिति न शक्यंते गणयितु मुन्मादचेष्टितानीति प्रकाशन्तेत्येति ग्रन्थिलाविच्छेदात् । प्रसारणस्य पर्यवसानं श्वेत्यनेन प्रविशतीतिसंकोचः । अत एव परस्मैपदयोर्निरन्तरमावापः कान्तिविशेषकरत्वादुपादेय एव भवतीति ॥

श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता ॥ ७० ॥

यथा—

‘श्रुत्वायं सहसागतं निजपुरात्रासेन निर्गच्छतां शत्रूणामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः ।
शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि क्रीडाद्रौ च सशाद्वले विवलितग्रीवैर्विमुक्ता दृशः ॥ ८३ ॥’

अत्र शुभ्रे पल्लविनि नवाम्भोरुहि इत्यादिश्लाघ्यविशेषणोपादानादुदात्तता ॥

श्लाघ्यैरिति । उत्कर्षवानुदात्तो लोके प्रसिद्धः । बहूनां मध्ये यः श्लाघते स उत्कर्षवान् । तेन श्लाघ्यत्वमुदात्तलक्षणम् । तदिह काव्ये वाक्यार्थपोषाधायकतया सहृदयहृदयावर्जनक्षमत्वेन श्लाघाविषयत्वे विशेष्यत्वं च वाक्यार्थोऽतस्तद्विशेषणपदेषु यथोक्तरूप उत्कर्षोऽभिमतोऽनुदारश्चायं गुण इति स्वरूपविशेषकृतात्कान्तिशरीरान्तर्गताच्चमत्कारित्वाद्भिद्यते । नचात्र मुहतिरभिमतेति नैकमपि कान्तिरूपमस्ति । अत एव पुराणच्छायमुदाहरति—श्रुत्वेति । श्रुतिमात्रेणेयं दशा दर्शने तु न ज्ञायते कथं भविष्यतीति । यमिति । न ह्यन्यस्य श्रुतमात्रस्य तादृशप्रभावसंभावना । सहसेति यावत्क्रीडासहचराणां धवलगृहादीनामपि च प्रेमानुरूपमापृच्छ्यते तावानपि समयो न लब्ध इति ध्वन्यते । आगतमिति निष्ठाप्रत्ययेन चेदिच्छति सिद्धमेवागमनमिति द्योतयति—निजेति । यस्यान्येन धर्षणं स्वप्नेऽपि न बुद्धिविषय आसीत् । सोपद्रवस्यापि यस्य न त्यागः कदापि कथंचिदभूदिति व्यज्यते । निर्गच्छतामिति हृदयवमुख्येन पुनः पुनरवतिष्ठमानानामसंभवद्रूपं निर्गमनमिति