060 घोषं उदचरदिति भगवतस्त्रैलोक्यग्रहे निरङ्कुशप्रभावः सद्यःपदेन सूच्यते । अथवा चेदागमानामात्मलाभानन्तरमेव परमेश्वरस्तुतिरूपतात्पर्यावसानमिति सर्वस्या अपि श्रुतेः परमेश्वरप्रवणत्वमनन्यसाधारणभक्तिप्रह्वतां च कविरभिप्रैति । पुरारेरित्यनेन संहारिरूपता भगवतः प्रकृतपोषानुगुणा प्रकाशिता ॥

और्जित्यं गाढबन्धता ।

यथा—

‘अस्मिन्नीषद्वलितविततस्तोकविच्छिन्नभुग्नः किंचिल्लीलोपचितविततः पुञ्जितश्चोच्छ्रितश्च ।
धूमोत्पीडस्तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन्सृजति गगने गत्वरानभ्रभङ्गान् ॥ ८५ ॥’

अत्र गाढबन्धस्य स्पष्टमेव प्रतिभानादौर्जित्यम् ॥

और्जित्यमिति । ऊर्जितो महाप्राणस्तस्य भाव और्जित्यं तत्र संदर्भस्य महाप्रांणता गाढत्वमन्तरान्तराविलम्बितनयद्भिः प्रयोगैः कुण्डिलत्वम् । गुणसामान्यलक्षणादतिप्रसङ्गो नास्ति । तथा हि—प्रकृतोदाहरणे प्रथमपादे विच्छिन्नभुग्न इत्यत्र तालव्यद्वयम् । कण्ठ्यदन्त्यसंयोगौ प्रस्फुटोन्मिश्रौ । अन्ये मृदवः । द्वितीयपादे औष्ठ्योपध्मानीयतालव्यचतुष्कसंयोगाः प्रस्फुटाः । स्वरव्यञ्जनमध्ये विसर्गपाठ उभयसंज्ञाभिप्रायेणेति दुर्गसिंहः । तेन तदादेशस्यापि व्यञ्जनत्वम् । अन्ये मृदवः तृतीयपादे दन्त्योष्ठ्यदन्त्यकण्ठ्यसंयोगा उन्मिश्राः । अन्ये मृदवः । चतुर्थपादे रेफान्तसंयोगा भृदवो य इति न कापि कठोरता प्रतिभासते । तथा च—प्रथमतृतीयाभ्यामत्र द्वितीयचतुर्थयोर्गाढत्वम् । तथा—‘हस्ते लीलाकमलमलकं बालकुन्दानुविद्धम्-’ इत्यादेरगाढप्रथमतृतीययोरप्यस्ति धारणी महाप्राणता व्यक्तेत्याह—अत्रेति ॥

प्रेयः प्रियतराख्यानं चाटूक्तौ यद्विधीयते ॥ ७१ ॥

यथा—

‘सौजन्याभ्बुनिधे बुधप्रिय गुणप्राकार धर्मद्रुम- प्रारोह प्रतिपन्नवत्सल महात्यागिन्विवेकाश्रय ।
लक्ष्म्यावास मनस्विनीमनसिजव्यापारदीक्षागुरो श्रीमन्मुञ्ज किमित्यमुं जनमुपस्प्रष्टुं दृशा नार्हसि ॥ ८६ ॥’