064

यथा—

‘केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ।
धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥ ८९ ॥’

अत्र श्रुतावगतवाक्यार्थस्य सृजति—संहरति—शास्ति—स्तूयते—इति शब्दानामन्तःसंजल्परूपेण सूक्ष्मतया सूक्ष्मत्वम् ॥

अन्तरिति । यथा करितुरगादिरूपकाणां पाषाणशिलादावभिव्यक्तमवस्थितौ सूक्ष्मरूपता तथा शब्दानां श्रूयमाणानामपि कथमन्यथा वाक्यार्थभावनदशायां शेषनियमेनोन्मेषः । केवलमित्यादौ सृजति—संहरति—शास्तयो धातवः कर्तर्येव भगवद्विषये प्रयुज्यमानाः प्रत्ययान्प्रयोजयन्ति न कर्मणीति वाक्यार्थो यदा भाव्यते तदैवायं सृजति संहरति शास्ति, न तु सृज्यते संह्रियते शिष्यते इति शब्दाः प्रकाशन्ते । एवं स्तौतिर्विपरीतकारकः । अत्र स्तौतिः कर्मण्येव प्रत्ययप्रयोजको न कर्तरीति वाक्यार्थभावनासमय एव नायं किंचित्स्तौति किंतु सर्वैः स्तूयत एवेति शब्दा उन्मिषन्ति । तदेतदाह—अत्र श्रुतावगतेति । यावदेव वाक्यं श्रूयमाणमवगम्यते तस्यैव भावनापल्लवः पश्चादवसीयत इति वटबीजन्यायमुपोद्बलयति । सोऽयं सहृदयप्रतीतिसाक्षिकोऽर्थः ॥

ध्वनिमत्ता तु गाम्भीर्यम्

यथा—

‘मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रमं चक्राङ्कं वह पादयुग्ममवनीं दोष्णा समभ्युद्धर ।
ल्क्षमीं भ्रूनिकटे निवेशय भव ज्यायान्दिवौकस्पते- र्विश्वान्तःकरणैकचौर तदपि ज्ञातं हरिः खल्वसि ॥ ९० ॥’

अत्र नाभ्यां पुण्डरीकधारणं परिमितविक्रमत्वं चक्राङ्कितकरत्वं दंष्ट्रया वसुधोद्धारणं वक्षःस्थलनिवेशितलक्ष्मीकत्वमिन्द्रावरजत्वं च ध्वनयतीति गाम्भीर्यम् ॥

ध्वनिमत्तेति । ध्वननं ध्वनिर्व्यञ्जनात्मा व्यापारः । स द्विविधः—शब्दध्वनिः