075
माधुर्यमुक्तमाचार्यैः क्रोधादावप्यतीव्रता ।

यथा—

‘भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता- मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् ।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च नो प्रश्रयः ॥ १०२ ॥’

अत्र वासवदत्तालक्षणस्यार्थस्य कोपेऽपि योऽयं विनयावम्बनेन कोपचिह्ननिह्नवस्तन्माधुर्यम् ।

माधुर्यमिति । शृङ्गारकरुणौ हि मधुरौ ततस्तव्द्यञ्जकोऽर्थोऽपि मधुरस्तस्य शर्करादिरससोदरं माधुर्यम् । यथा हि—शर्करारसः सहृदयस्यासहृदयस्य वा, सुस्थस्यासुस्थस्य वा, झटिति रसनाग्रमर्पितश्चमत्कारमावहति, तथा चित्तद्रुतिसारचर्वणैकप्राणरसव्यञ्जकोऽर्थस्तेन तव्द्यञ्जनशक्तिसमुद्रैकनिर्वहणं वाक्यार्थस्य माधुर्यमिति पर्यवसितोऽर्थः । तत्र वासनापरिपाकवशादुदयव्ययवतीषु दीप्तचित्तवृत्तिषु जागरूकास्वपि समस्तन्यग्भावनया विरोधः संपद्यत इति क्रोधादावप्यतीव्रता इत्युक्तम् । तथा हि—भ्रूमेदे इत्यादौ गात्रस्खलितादिना कदाचिदपराद्धे नायके प्रेमस्वभावादीर्ष्यारोषलक्षणव्यभिचारिप्रादुर्भावात्तदनुभावभ्रूभेदोद्गमो रतिप्रकर्षाद्भविष्णुनावहित्थेन न्यग्भाव्यते । विरोधिविजये हि भूयान्प्रकर्षः परस्य भवति । अत एव परामित्युक्तम् । एवं ‘ईषन्मां प्रति भेदकारि हसितम्’ इत्यादौ माधुर्यमुन्नेयम् । तदिदमाह—अत्र वासवदत्तालक्षणस्येति ॥

अनिष्ठुरत्वं यत्प्राहुः8 सौकुमार्यं तदुच्यते ॥ ८० ॥

यथा—

‘सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी सीता जवात्रिचतुरापि पदानि गत्वा ।
गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम् ॥ १०३ ॥’
  1. ‘प्रोक्तम्’ ग