078 वनस्य कल्पतरुसंबन्धः संपत्, तत्रैव सत्पदेन मुक्तास्तबकमाणिक्यमञ्जरीचीनांशुककिसलयादिविशेषद्योतिना प्रकर्षः । पद्मप्रकरस्तोयसंपत्, तत्रैव काञ्चनमयत्वेन पद्मानां प्रकर्षः । बहुत्वं शिलावेश्मसंपत्, तत्रैव रत्नरूपताप्रकर्षः । संनिधि स्रीप्रतियोगिकतासंपत्, तत्रैव विबुधेति प्रकर्षः । तदिदमाह—सत्कल्पवृक्षादिपदैरिति ॥

आशयस्य य उत्कर्षस्तदुदात्तत्वमिष्यते ।

यथा—

‘पात्रे पुरोवर्तिनि विश्वनाथे क्षोदीयसि क्ष्मावलयेऽपि देये ।
व्रीडास्मितं तस्य तदा तदासीच्चमत्कृतो येन स एव देवः ॥ १०७ ॥’

अत्र सकलक्ष्मावलयप्रदानेऽपि जातव्रीडतया बलेराशयोत्कर्षप्रतिषादनादुदात्तत्वम् ॥

आशयस्येति । उत्कर्षः पूर्ववत् । उच्चाशयो लोके उदात्त इति प्रतीतः ॥ पात्र इति । विश्वनाथ इति यदाज्ञावशंवदा त्रिलोकी सोऽपि यत्प्रार्थयत इति, वलयेऽपीत्यपिशब्देन यस्यैकदेशः कुरुपाण्डवनिधननिदानतया विख्यातस्तस्यापि देये लज्जत इति । देवासुरकिन्नरादिरयं जङ्गमस्थावरप्रपञ्चो यदुच्छ्वासविलसितं सोऽपि चमत्कृत इति पदार्थानभिहितः प्रकर्षोऽभिधेयः ॥

ओजः स्वाध्यवसायस्य विशेषोऽर्थेषु यो भवेत् ॥ ८२ ॥

यथा—

‘तान्येव यदि भूतानि ता एव यदि शक्तयः ।
ततः परशुरामस्य न प्रतीमः पराभवम् ॥ १०८ ॥’

अत्र परशुरामो विजयत एवेत्यस्मिन्नर्थे स्वाध्यवसायप्रतिपादनमोजः ॥

ओज इति । अध्यवसायो निश्चयस्तत्र विशेषः पूर्ववत् । स्वपदेन वक्ताभिमतः ॥ तानीति । यदि हन्तव्यजातीयमेव न विपर्यंस्तम् । ता एवेति । प्रभावोत्साहमन्त्रजास्तद्वदर्थनिबर्हणप्रौढिप्रख्यातकीर्तयः शक्तयो यदि न विलीनतामयासिषुः । परशुराम इति । अर्जुनभुजसहस्रच्छेदादिना यस्य परशु(राम)र्वरदानेन त्रिभुवनेऽपि प्रसिद्ध इत्यादि ॥