085
हु हुं हुं श्रान्तोऽहं शिशयिषुरिहैवापवरके क्व यामिन्यां यासि स्वपिहि ननु निर्दंशमशके ॥ ११९ ॥’

अत्र प्रश्नादर्थमवगम्य उत्तरादर्थान्तरावगमो गतिः ॥

गतिरिति । अर्थादर्थविशेषात् । हृदयसंवादिन इति यावत् । अर्थान्तरस्य तथाभूतस्य । तेन यत्र सहृदयहृदयंगमादर्थात्कांस्यतालानुस्वानुस्वानन्यायेन तादृशमर्थान्तरमवगम्यते सा गतिरिति लक्षणार्थः ॥ शुभे कोऽयं वृद्ध इति । सर्वाकारमनवद्यायास्तावद्दास्यमपि नायमर्हतीति हृदयानुकूलमर्थं प्रश्नादवगत्य गृहपरिवृढ इत्युत्तरम् । अस्मादपि मम नायं कोऽपि किं तु गृहस्वामीति हृदयसंवादिनमर्थमवधार्य किं कव पितेत्यादिकमप्रश्नोत्तरशृङ्खला गवेषणीया । तदेतव्द्याचष्टे—उत्तरादिति । उत्तरप्रत्युत्तरवाक्यात् । उत्तरं तु पदं प्रश्नपदमेव ॥

रीतिः सा यस्त्विहार्थानामुत्पत्त्यादिक्रियाक्रमः ॥ ८७ ॥

यथा—

‘प्रथममरुणच्छायस्तावत्ततः कनकप्रभ- स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
प्रभवति पुनर्ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ १२० ॥’

अत्रोदयादारभ्य चन्द्रस्योत्पत्त्यादिक्रियाक्रमो रीतिः ॥

रीतिरिति । उत्पत्त्यादीनां क्रियाणां क्रमः काव्यशोभावहत्वेन गुणः । नेदं वस्तुस्वभाववर्णनमिति जातेरर्थव्यक्तेश्च भेदः । सुगममुदाहरणम् ॥

उक्तिर्नाम यदि स्वार्थो भङ्ग्या भव्योऽभिधीयते ।

यथा—

‘त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमानं परमिह युवामेव भजथः ।
अपि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वा- मतः शेषं चेत्स्याज्जितमिह तदानीं गुणितया ॥ १२१ ॥’