011

गूढार्थमिति । यस्य पदस्य द्वावर्थौ सिद्धश्चासिद्धश्च तच्चेदप्रसिद्धे प्रयुक्तं तदा गूढार्थम् । अप्रसिद्धार्थ प्रयोगमिति । अप्रसिद्घेऽर्थे प्रयोगो यस्येति गमकत्वाद्बहुव्रीहिः । तव तेजसि नान्यतेजांसि भान्तीति योजना । ‘गौः शराक्षिपयःस्वर्गपशुमेदवचःसु च’ इत्याम्रातोऽपि तथा नाक्ष्णि प्रयुज्यते यथा पशुभेदादावित्याह—न च गोशब्दस्येति । ‘हरिः कृष्णे च सिंहे च मेकार्कभुजगेषु च’ इति स्वसंकेतितस्यापि हरिशब्दस्य न तथा रवौ प्रसिद्धिर्यथान्यत्रेत्याह—सोऽपि नेति ॥

स्वसंकेतप्रक्लृप्तार्थ नेयार्थमिति कथ्यते ।

यथा—

‘मुखांशवन्तमास्थाय विमुक्तपशुपङ्क्तिना ।
पङ्क्त्यनेकजनामध्रतुका जित उलूकजित् ॥ ११ ॥’

अत्र पङ्क्तिशब्देन दशसंख्या, अनेकजनामेत्यनेन चक्रम्, तङ्रइत्यनेन रथस्ताभ्यां दशरथस्तस्य तुक् बालको लक्ष्मणस्तेन जित उलूकजिदिन्द्रजित् । किं कृत्वा । मुखांशवन्तमास्थाय हनुमन्तम् । किंभूतेन । विमुक्तपशुपङ्क्तिना विमुक्तेषु पशुपङ्क्तिना । अत्र पशुशब्देन गोशब्दो लक्ष्यते तेनेषवस्तदिदं स्वसंकेतकल्पितार्थं नेयार्थमुच्यते ॥

स्वसंकेतेति । कल्पितार्थं नेयार्थमिति सूत्रयित्वा वामनेन व्याख्यातम् । अश्रौतस्यार्थस्य कल्पना कल्पनाकल्पितार्थम् । अस्यार्थः—यत्पदं नानार्थस्वपर्यायलक्षणया विवक्षितप्रतीतिपर्यन्तं नीयते तत्कल्पितार्थमिति केचित् । तदयुक्तम् । स्वपर्यायेत्यस्य व्यर्थत्वादव्यापकत्वाच्च । तस्मात्प्रयोजनं विना लक्षणया प्रयुक्तमित्येवार्थः । यदाह काव्यप्रकाशकारः—नेयार्थेयत्त्वशक्तित इति यस्मिन्निषिद्धं लाक्षणिकमिति । प्रयोजनं विना रूढं लक्षणापरिग्रहे न दोषः । तथा च द्विरेफरथाङ्गनामादिपदानां रेफद्बयानुगतभ्रमरादिशब्दलभणाद्वारेण षट्पदादौ वृत्तिर्वृद्धव्यवहारपरम्परानुपातिनीति तेषां प्रयोगोऽयुक्त एव । अत एव ‘तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास’ इत्यादिकमपि नेयार्थमिति काश्मीरकाः । तदेतत्खपदेन दर्शितवान् । मुखस्यांशो हनुरत्राभिमतः । पङ्क्तिरिति दशाक्षरं छन्दः दशसंख्या लक्ष्यते । अनेकजो द्विजश्चक्रवाकस्तस्य नाम चक्रं रथैकदेशस्तद्धारयतीति