087

संप्रत्यतिप्रसङ्गवारणार्थं क्रमप्राप्ता वैशेषिकगुणा लक्षितव्याः । ते च दोषा अपि सन्तो गुणीभावमापन्ना उच्यन्ते । तत्रैष कवीनामालापः—

19सामण्णसुन्दरीणं विब्भममुव्वहइ अविणओच्चेअ ।
धूमोच्चिअ पज्जलिआणं बहुमओ सुरहिदारूणम् ॥’

20दारुणानां गुणत्वमिति शङ्कां दर्शयन्नाह—

पदाद्याश्रितदोषाणां ये चानुकरणादिषु ।
गुणत्वापत्तये नित्यं तेऽत्र दोषगुणाः स्मृताः ॥ ८९ ॥
त्रिविधा अपि ते भूयश्चतुर्विंशतिधा बुधैः ।
प्रोक्ता यथा गुणत्वेन प्रविभज्य तथोच्यते ॥ ९० ॥
या म्लिष्टम्लेच्छितादीनां पददोषेष्वसाधुता ।
निरूपितानुकरणे गुणत्वं सा प्रपद्यते ॥ ९१ ॥

यथा—

‘उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या ।
हुं हु मुञ्च मममेति च मन्दं जल्पितं जयति मानवतीनाम् ॥ १२३ ॥’

अत्र हुं हु मममेत्यसाध्वोरपि म्लिष्टम्लेच्छितयोरनुकरणत्वाद्गुणत्वम् ॥

पदादीति । पदवाक्यवाक्यार्थदोषाणां गुणत्वापत्तये नित्यं ये भवन्ति, तेऽनुकरणादिषु मध्ये दोषगुणाः स्मृता इति संबन्धः । यद्यपि चानुकरणादिका एव न गुणाः, तथाप्यनुक्रियमाणाद्यभेदोपचारेणोक्तम् । पदादिदोषेष्वन्त्यान्त्यस्यैकस्य नवधामेदे चतुर्विंशतिप्रकाराः । यथेति । येनोपाधिना गुणीभवनमाचार्यैरुपपादितं तत्तदुपाधिविभागप्रदर्शनं करिष्यत इति । या म्लिष्टेति । इह द्वये दोषा नित्या अनित्याश्च । तत्रानुकरणमात्रानपवदनीयदोषभावाश्च्युतसंस्काराप्रयुक्तादयो नित्याः । अनुकरणीयानुकरणानपवादकहेतुकाः श्रुतिकटुत्वप्रभृतयस्त्वनित्याः । येषु पददोषेषु म्लिष्टम्लेच्छितप्रभृतीनां यासाधुता निरूपिता, सा गुणत्वमनुकरणे प्रपद्यत इत्यन्वयः । लुप्तैकदेशं म्लिष्टम् । अव्यक्तरूपं म्लेच्छितम् । आदिग्रहणेन ग्रस्तनिरस्तो-

  1. ‘सामान्यसुन्दरीणां विभ्रभमुद्वहत्यविनयोच्छ्रायः । धूमोच्चयः प्रज्वलितानां बहुमतः सुरभिदारूणाम् ॥’ इति छाया
  2. ‘क्वचिद्दूषणानामपि गुणत्वमिति दर्शयन्नाह—‘ इति भवेत्