088 पघ्मातकम्पितादयः । हुं हु इति द्वितीयहुंकारे बिन्दुप्रोञ्छनान्म्लिष्टम् । मममेति किं मुञ्च मुञ्चेति म्लिष्टमुत ममेति न निश्चीयते । अनुकरणत्वाहुणत्वमिति । अर्थविशेषे हि साधुत्वव्यवस्थेति । यच्चाशक्तिजमसाधुरूपम्, तस्यानुकरणे साधुत्वमिष्यत इत्युक्तम्, अनुक्रियमाणं तु स्वरूपपदानुकरणतया पूर्वार्थत्यागेन साघ्वेव । तस्यैवानुकरणस्य तत्कालरञ्जकमानवतीमममवचनानुकारतया च गुणीकरणसामर्थ्यमिति ॥

गुणत्वमप्रयुक्तस्य तथानुकरणे भवेत् ।

यथा—

‘दिवं पत्काषिणो यान्ति येऽचीकमत भाषिणः ।
पत्काषिणोऽपि नो यान्ति ये वचन्ति प्रयुञ्जते ॥ १२४ ॥’

अत्राचीकमत वचन्तीत्यादिपदानां कविभिरप्रयुक्तानामप्यनुकरणत्वाद्गुणत्वम् ॥

गुणत्वमिति । पत्काषिण इति पादमपि कषन्तः । ‘हिमकाषिहतिषु च’ इति पादशब्दस्य पद्भावः । वचेर्वचन्तीत्येव रूपमप्रयुक्तम् । न त्वन्यथापि । ‘सत्यं नाम न वच्मि’ इत्यादेरनुमतत्वात् । इत्यादिपदानामित्युदाहरणान्तराभिप्रायेण ॥

यच्छ्रुतेर्विरसं कष्टं तस्य दुर्वचकादिषु ।
गुणत्वमनुमन्यन्ते सानुप्रासस्य सूरयः ॥ ९२ ॥

यथा—

21त्वाष्ट्रास्त्वाष्ट्रारिराष्ट्रे न भ्राष्ट्रे नादंष्ट्रिणो जनाः ।
धार्तराष्ट्राः सुराष्ट्रे न महाराष्ट्रे च नोष्ट्रिणः ॥ १२५ ॥’

अत्र श्रुतिविरसत्त्वात् कष्टत्वेऽपि दुर्वचकत्वाद्गुणत्वम् ॥

यच्छ्रुतेरिति । दुर्वचकयोगा इति व्यावहारिकचतुःषष्ट्यां दुर्वचकप्रयोगोऽनुमतः । तस्यानुप्रासघटकत्वेऽलंकारनिर्वहणक्षमतया कविशक्तिव्यञ्जकस्य गुणीभावः । आदिपदेन रौद्रादिरसानुप्रवेशः । यदाह—

‘शषौ सरेफसंयोगौ टवर्गश्चापि भूयसा ।
विरोधिनः स्युः शृङ्गारे तेन वर्णा रसच्युताः ॥
  1. ‘नाष्ट्रा’ स्व-रा; ‘नांष्ट्रा’ इति पठित्वा ‘नांष्ट्रा राक्षसाः’ इति व्याख्यातं काव्यानुशासनविवेके हेमचन्द्राचार्यैः