तुच्छेति । शब्दपल्लवनस्य प्रकृतरसाननुगुणत्वेन दोषत्वप्रसङ्गे क्वचिदनन्यगतिकतया कवेरुत्पाद्यते । तथा हि—भिन्नसर्गान्तैरित्यादिना सर्गाणामौत्सर्गिकैकवृत्तनिर्वाहौचित्ये स यथोक्तसंक्षिप्तशब्दाप्रवेशात्पररूपेण तदर्थत्वस्य विवक्षितत्वाच्च 091 शब्दविकासे न दोषः, किं तु गुण एव । प्रकृतोदाहरणे द्विरष्टवर्षाकृतिमिति कल्पोपपदं महीरुहमिति च निदर्शनं मन्यन्ते । षोडशादिशब्दानामपि वंशस्थप्रवेशत्वादनन्यगतिकत्वाभावात् । हिरण्यपूर्वं कशिपुमिति तु संगच्छते । नहि हिरण्यकशिपुशब्दोऽत्र प्रविशति । प्रदर्शनार्थं तु द्वयमन्यदप्युपात्तम् । एवंविधः शब्दविस्तरो गुणतामासादयतीत्याशयात् । तेनायमर्थः—पल्लवाख्यशब्दगुणे तावत्तुच्छता चमत्कारकारितया गुणधुराधिरूढैवाविस्तरविविक्तविषयतया क्व विशेषगुणस्य भवतीति जिज्ञासायां तु छन्दोऽनुरोधो विहितः । सोऽपि हि कादाचित्कः करोत्येव दोषभावव्यावृत्तिमिति ॥