096

यथा—

‘अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।
भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ १३६ ॥’

अत्र विपरीतार्थकल्पनं विरुद्धत्वेऽपि संध्यर्थविग्रहार्थयोः स्फुटभिन्नार्थत्वेनाभिधानाद्गुणत्वम् ॥

यत्तदिति । एवं वस्तु प्रकृतमभिसंधाय वाक्यरचने तदुपमर्दकवस्त्वन्तरप्रवेशो विरोधः । यत्र द्वे अपि वस्तुनी प्रकृते वस्त्वन्तरमेव वा प्रकृतं तद्यथोक्तरूपाभावे कथं दोषः । तथा हि—अभिधायेत्यादौ दूतवाक्ये संधिविग्रहयोर्मिथो विरोधिनोरपि विवक्षितं स दोषः । सरुषः सक्रोधस्य तव माननां पूजां शिशुपाल इच्छति । अनुशयः पश्चात्तापः । अभिमुखं सोत्कण्ठं मनो यस्य स तथेति संधिपक्षे । विग्रहपक्षे त्वनुशयः क्रोधो भवतः सकाशादभि भयशून्यं मनो यस्येति नित्यसापेक्षत्वात्समासः । सरुषो मानना उपयोगस्तदिह निसृष्टार्थस्योभयोपन्यासो यद्रोचते तद्विधीयतामित्यभिसंधाय रचित इति गुणत्वमित्युभयविवक्षापक्षे व्याख्यानम् । यदा तु शासनहरो दूतस्तदोद्यतेष्वपि शस्त्रेषु यथोक्तवक्तारो दूता भवन्तीति न्यायेन विग्रहर्थमेवाभिमतः विपक्षस्यापि प्ररोचना दूतकर्तव्येति मुखे संधिः पर्यायभूतो युक्त एव । तदिदं व्याख्यानेन स्फुटयति—अत्रेति । संधिरूपोऽर्थः संध्यर्थः, विग्रहरूपोऽर्थो विग्रहार्थः । तयोरभिधानेन स्फुट एव भिन्नोऽर्थः प्रयोजनम् । पक्षद्वयेऽपि यत्प्रयोजनमुक्तं तदभिप्रायेणैतव्द्याख्यानम् ॥

अप्रयोजकमित्युक्तमविशेषविधायकम् ।
स्वरूपमात्रे वक्तव्ये तस्यापि गुणतेष्यते ॥ १०३ ॥

यथा—

27तेऽप्याकाशमसिश्याममुत्प्लुत्य परमर्षयः ।
साग्रं वर्षसहस्रं स तपस्तेपे महामनाः ॥ १३७ ॥’

अत्रासिश्याममित्याकाशं प्रति, साग्रमित्यनेन च वर्षसहस्रं प्रति विशेषानभिधानेऽपि दूरोत्पतनचिरतपश्चरणयोरुपयोगविवक्षायां गुणत्वम् ॥

  1. ‘ते चा’ ख