102 दनुत्थानं दोषाभावत्वद्वारं, ततश्च मुख्य एव स्थाने जुगुप्सादायित्वं पूर्वाचार्यश्लोकेनैव व्याचष्टे—अत्रेत्यादि । गुणग्रस्तत्वमभिप्रेत्यातिशयसंपत्तौ प्रकृतौचित्यात्कपोलस्यैव प्रतिभासस्तदिदमुक्तम्—रागातिशयहेतुभूतयोरिति । तथा च जगन्नयनानन्दभूतस्य निःशेषिताशेषतमसश्चन्द्रमसो यदिदमभिप्रेतकामिनीकपोललावण्यबिन्दुमात्रतया भानं तदुचितमेवेति ॥

प्राच्यानामेव वासनामभिसंधाय स्मृतिहेतुमुदाहरति—

घृणावत्स्मृतिहेतुर्यथा—

‘विपूयरशनावन्तः पलाशाषाढधारिणः ।
37ब्रह्मवर्चस्विनो यान्ति द्विजपोगण्डका इमे ॥ १४९ ॥’

अत्र विपूयपलाशब्रह्मवर्चसपोगण्डशब्दानां घृणावत्स्मृतिहेतुत्वेऽप्यन्यत्र38 लक्षितत्वाददोषत्वम् ॥

यथेति । आषाढो दण्ड; । ब्रह्मवर्चसिन इति । ‘ब्रह्महस्तिभ्यां वर्चसः’ इति समासान्तस्ततो मत्वर्थीय इनिः । पोगण्डो बालः ॥

एवमन्यप्रकारमपि संख्यानादिकं स्वयमुन्नेयमित्याह—

एवम39न्यदपि द्रष्टव्यम् । अत्र च—

किंचिदाश्रयसंबन्धाद्धत्ते शोभामसाध्वपि ।
कान्ताविलोच40नन्यस्तं मलीमसमिवाञ्जनम् ॥ १०६ ॥

तद्यथा—

‘अन्त्रप्रोतबृहत्कपालनलककूरक्वणत्कङ्कण- प्रायप्रेङ्खितभूरिभूषणरवैराघोषयत्यम्बरम् ।
पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लस- व्द्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ॥ १५० ॥’

अत्राश्रयस्य बीभत्सरसो चितत्वाददोषत्वम्41 ॥

  1. ‘ब्रह्मवर्चसिनः’ इति पाठष्टीकानुसारी
  2. ‘प्यत्र’ क-ख
  3. ‘न्यत्र’ क
  4. ‘लोकने’ क
  5. ‘दोषः’ क-ख