104 तया रसतापन्नम् । उपपद्यते च तच्चित्तस्य सादृश्यमात्रेण तद्रूपतानुसंधानम् । ततश्च कथं नोद्दीपनता वस्तुसत्त्वस्यानुपयोगित्वात् । अत एव सूत्रितस्य बीभत्सस्य प्रकृतेन बाधात् प्रकृतार्थानुपोष इति ॥

ननु कथमुद्देशे चतुर्विंशतिधेत्युक्तम् । दोषा हि पूर्वं षोडशैव विभक्ता इत्यत आह—

अश्लीलादेरमी भेदा भिद्यन्ते यत्त्रिधा त्रिधा ।
भवन्ति नव तेनैते पूर्वोक्ता दश पञ्च च ॥ १०८ ॥
चतुर्विंशतिरित्येषा प्रोक्ता पदसमाश्रया ।
समासात्पू45र्वनिर्दिष्टदोषाणां गुणक्लृप्तये46 ॥ १०९ ॥
इत्येतत्पददोषाणामदोषत्वमुदीरितम् ।

अश्लीलादेरिति । निगदव्याख्यातम् । चतुर्विंशतिरित्येषेति । आ दशभ्यः संख्या संख्येये बर्तते, ततः संख्याने संख्येये चाभिधानात् केवलसंख्यानवचनत्वेन गवां विंशतिरितिवत्पदसमाश्रयेत्युपपन्नम् ।

इदानीं वाक्यदोषाणां गुणत्वमभिधीयते ॥ ११० ॥

क्रमप्राप्तवाक्यदोषगुणीभावव्युत्पादनमवतारयति—इदानीमिति ॥

तत्र शब्दविहीनस्य विवक्षावशतः क्वचित् ।
निसर्गसुन्दरत्वेन गुणत्वं परिकल्प्यते ॥ १११ ॥

यथा—

‘आक्षिपन्त्यरविन्दानि मुग्धे तव मुखच्छविम् ।
कोशदण्डसमग्राणां किमेषां खलु दुष्करम् ॥ १५२ ॥’

अत्र ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ इति कर्तृकर्मणोः षष्ठीप्रतिषेधे किमेषां47 दुष्करमित्यपभाषणेऽपि संबन्धमात्रविवक्षातो गुणत्वम् ।

यदाह—

‘इदं हि शास्त्रमाहात्म्यदर्शनालसचेतसाम् ।
अपभाषणवद्भाति न च सौभाग्यमुज्झति ॥’
  1. ‘पूर्वदिष्टानां’ ख
  2. ‘कल्पना’ ग
  3. ‘षामस्ति’ ग